पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः अध्यायः (७) १११


त्वाष्ट्र्याश्च साम ॥ ३.७.७॥

त्वष्टा नो दैव्यम् (सा. २९९) इत्यत्रैकं साम । त्वष्टा (ग्राम. ८. ७.२९९. १) इति तृतीयादिकं त्वाष्ट्रयाश्च साम ॥ ७ ॥

अदितेश्च साम ॥ ३.७.८ ॥

कदा चन स्तरीरसि (सा. ३००) इत्यत्रैक साम । कदाचनास्ता- रीरसाइ (ग्राम. ८.७.३००.१) इति मन्द्रमन्द्रादिकम् अदितेश्च साम ।। ८ ।।

आजीगर्तं च ॥ ३.७.९॥

युक्ष्वा हि वृत्रहन्तम (सा. ३०१) इत्यत्रैक साम । आइही (ग्राम. ८. ७. ३०१. १) इति क्रुष्टद्वितीयादिकम् आजि (जी?) गर्तनामकम् ॥ ९ ॥

माधुच्छन्दसं च ॥३.७.१०॥

स्वामिदा ह्यो नरः (सा. ३०२) इत्यत्रैक साम त्वामिदा (ग्राम. ८. ७.३०२.१) इति तृतीयचतुर्थादिकम् माधुच्छन्दसं, मधुच्छन्दा नाम ऋषिः, तेन दृष्टम् ।। १०॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये तृतीयाध्याये सप्तमः खण्डः ॥ ७ ॥