पृष्ठम्:आर्षेयब्राह्मणम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः खण्डः

प्राकर्षं च वसिष्ठस्य च निहवः ॥३.९.१॥

असावि देवम् (सा. ३१३) इत्यत्र सामद्वयमुत्पन्नम् । असौहोवाहाइ (ग्राम. ८. ९. ३१३. १) इति द्वितीयतृतीयादिकं प्राकर्षसंज्ञम्। आइही (ग्राम. ८. ९. ३१३. २) इति क्रुष्टद्वितीयादिकं निहवः ॥१॥

गृत्समदस्य योनिनी द्वे ॥३.९.२॥

योनिष्ट इन्द्र (सा. ३१४) इत्यत्र सामद्वयम् । योनीः (ग्राम. ८.९.३१४.१) इति चतुर्थमन्द्रादिकम् । योनिष्टआइ (ग्राम. ८. ९. ३१४. २) इति क्रुष्टद्वितीयादिकम् । एते द्वे गृत्समदस्य योनिनी। योनिशब्दयुक्त सामनीत्यर्थः ॥ २ ॥

औरुक्षये द्वे ॥३॥

अदर्दरुत्समसृजो वि खानि (सा. ३१५) इत्यत्र सामद्वयमुत्पन्नम् । अदर्दरूत् (ग्राम. ८. ९. ३१५. १) इति चतुर्थमन्द्रादिकम् । अदर्दरुत्समसृजाः (ग्राम. ८. ९.३१५.२) इति चतुर्थमन्द्रादिकम् । एते द्वे औरुक्षये एतन्नामधेये ॥ ३॥

पार्थे द्वे ॥३.९.४॥

सुष्वाणास (सा. ३१६) इत्यत्र सामद्वयम् । सूष्वाणासाः (ग्राम. ८. ९. ३१६. १) इति चतुर्थमन्द्रादिकम् । ओहोहोइ सूष्वा (ग्राम. ८.९.३१६.२) इति द्वितीयतृतीयादिकम् । एते द्वे पार्थे ॥४॥