७६ आयब्राह्मणम्
चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे धुरोः सामनी । अभि । प्रगो (ग्राम. ५. ६. १६८. ३) इति मन्द्रतृतीयादिकं तृतीयं महागौरी वितनामकम् । यद्वा गौरीवितनामकमेव वा ॥५॥
वाचःसामनी द्वे । महावामदेव्यं तृतीयम् । वामदेव्यं वैव ॥२.६.६॥
कया नश्चित्र आ भुवद् (सा. १६९) [इत्यत्र] सामत्रयमुत्पन्नम् । कयानश्ची (ग्राम. ५. ६. १६९. १) इति मन्द्रादिकं प्रथमम् । होवाइ । होवाइकयानश्ची (ग्राम. ५.६.१६९. २) इति मन्द्रादिकं द्वितीयम् । एते द्वे वाचःसामनामके । काया (ग्राम. ५. ६. १६९. ३) इति तृतीयमन्द्रादिक महावामदेव्यम् [तृतीयम्] । यद्वा वामदेव्यमेव । वामदेव्यं भवति । एतेन वै वामदेवोऽन्नस्य पुरोधामगच्छत् । (ता. बा. १३. १. २६-२७) इति हि ब्राह्मणम् ॥ ६ ॥
इन्द्रस्य सत्रासाहीये द्वे । अजितस्य वाजिती ॥ २.६.७॥
त्यमु वः सत्रासहं (सा. १७०) इत्यत्र सामद्वयोत्पत्तिः । त्यमुवाः (ग्राम. ५ ६. १७०. १) इति मन्द्रादिकं प्रथमम् । त्याम् । उवस्सनासाहम् (ग्राम. ५. ६. १७०. २) इति द्वितीयतृतीयादिकं द्विती- यम् । एते द्वे इन्द्रस्य सत्रासाहीये सत्रासाहशब्दयुक्त । सत्रासाहीय मवति । यद्वा असुराणामसोढमासीत् । तद्देवाः सत्रासाहीयेनासहन्त । सोनानसमहीति तत्सत्रासाहीयस्य सत्रासाहीयत्वम् । (ता. ब्रा. १२. ९. २१) इति ब्रामणम् । यद्वा अजितस्य वाजिती इति ॥ ७ ॥