पृष्ठम्:आर्षेयब्राह्मणम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः अध्यायः (६) ७५

इन्द्रा५: पुरश्चनाः (ग्राम. ५. ६. १६६. ३) इतिं चतुर्थमन्द्रादिकं [तृतीयम् ।] एतानि त्रीणि वाम्राणि वम्रसंबन्धीनि । यद्वा प्रैयमेधानि । प्रियमेधो नाम ऋषिः । अपि वा वैयश्वानि - व्यश्वो नाम ऋषिः । यद्वा आश्वानि अश्वभूत- प्रजापतिसंबन्धीनि । अथवा उद्गातृदमनानि एतन्नामधेयानि ॥ ३ ॥

गौरीविते द्वे । आपालवैणवे द्वे । वैणवे वापाले वाकूपारे वा पारववे वा ॥२.६.४॥

आ तू न इन्द्र क्षुमन्तम् (सा. १६७) इत्यत्र चत्वारि सामान्युत्पन्नानि । आतून आ (ग्राम. ५. ६.१६७.१) इति मन्द्रादिक प्रथमम् । अतून इन्द्र क्षुमान्ताम् (ग्राम. ५. ६. १६७.२) इति मन्द्रचतुर्थादिकं द्वितीयम् । एते द्वे गौरीवितनामधेये । आतूनइ (ग्राम. ५. ६. १६७.३) इति चतुर्थमन्द्रादिकं तृतीयम् । आतून इन्द्र क्षुमान्ताम् ( (ग्राम. ५. ६. १६७.४) इति मन्द्रमन्द्रादिकं तुरीयम् । एते द्वे आपालवैणवनामधेये । यद्वा वैणवापालापरनामधेये । यद्वा आकूपारे आकूपारनामधेये । आकूपारो नाम कश्यपः । अथवा पारववे वा। [एतन् -] नामके ॥ ४ ॥

धुरोः सामनी द्वे । महागौरीवितं तृतीयम् । गौरीवितं वैव ॥ २.६.५॥

अभि प्र गोपतिं गिरा (सा. १६८) इत्यत्र सामत्रयमुत्पन्नम् । अभी अभी । प्रगोपातिगिरा (ग्राम. ५. ६.१६८.१) इति चतुर्थ- मन्द्रादिकं प्रथमम् । अभी अभी । प्रगो (ग्राम. ५.६.१६८.२) इति