पृष्ठम्:आर्षेयब्राह्मणम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः


आङ्गिरसानि त्रीणि ॥२.६.१॥

इदं ह्यन्वोजसा (सा. १६५) इत्यत्र सामत्रयमुत्पन्नम् । इदामे (ग्राम. ५. ६. १६५.१) इति मन्द्रमन्द्रादिकं प्रथमम् । इदहिया औहो (ग्राम. ५. ६. १६५. २) इति मन्द्रचतुर्थादिकं द्वितीयम् । इदाने ओजसा (ग्राम. ५. ६. १६५. ३) इति मन्दमन्द्रादिकं तृतीयम् । एतानि वीण्याङ्गि- रसानि । अङ्गिरसः संबन्धीनि ॥ १॥

अत्रैवम् ऋषिविकल्पं दर्शयति--

अपि वा माधुच्छन्दसं क्रौञ्चं घृतश्चुन्निधनं प्राजापत्यं माधुच्छन्दसं वैव ॥ २.६.२ ॥

मषां मध्ये आदिम माधुच्छन्दसम् । द्वितीय क्रौञ्चनामधेयम् । तृतीयं प्राजापत्यं प्रजापतिस्वभूतं घृतश्चुन्निधनम् । घृतश्चुता [इति निधनयक्तम् । अत्र विकल्पः । वा यद्वा तृतीय साम माधुच्छन्दममेव ।। २

वाम्राणि त्रीणि । प्रैयमेधानि वा वैयश्वानि वाश्वानि वोद्गातृदमनानि वा ॥२.६.३॥

महाँ इन्द्रः पुरश्च नः (सा. १६६) इत्यत्र सामत्रयमुत्पन्नम् । महा इन्द्रा५: (ग्राम. ५. ६. १६६. १) इति चतुर्थमन्द्रादिकं प्रथमम् । महाहार इन्द्राः (ग्राम. ५. ६.१६६.२) इति मन्द्रचतुर्थादिकं द्वितीयम् । महा