पृष्ठम्:आर्षेयब्राह्मणम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः अध्यायः (६) ७७


वामदेव्यं च ॥ २.६.८॥

सदसस्पतिमद्भुतम् (सा. १७१) इत्यत्रैक साम । सादा (ग्राम. ५. ६. १७१. १) इति चतुर्थमन्द्रादिकं वामदेव्यम् । चकारो भिन्नवाक्यद्योतनार्थः ॥ ८॥

अश्विनोश्च साम ॥ २.६.९॥

ये ते पन्था अधो दिवः (सा. १७२) इत्यत्र एक साम । हाइ । आप्सुदाक्षा (ग्राम. ५. ६. १७२. १) इत्यादि द्वितीयद्वितीयादिकम् अश्विनोः साम ॥ ९॥

गौतमस्य च भद्रम् ॥ २.६.१० ॥

भद्रं भद्रम् (सा. १७३) इत्यत्रैक साम । (ग्राम. ५. ६. १७३. १) इति मन्द्रचतुर्थादिकं गौतमस्य भद्रम् ।। १० ।।

अश्विनोश्चैव साम । सोमसाम वा ॥ २.६.११ ॥

अस्ति सोमो अय सुतः (सा. १७४) इत्यत्रक साम । अस्तिसोम (ग्राम. ५. ६. १७४. १) इति तृतीयचतुर्थादिकम् अश्विनोश्चैव [साम ।] सोमसाम वा ॥११॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे द्वितीयाध्याये षष्ठः खण्डः ॥ ६ ॥