पृष्ठम्:आर्षेयब्राह्मणम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः खण्डः


त्वाष्ट्रीसाम च ॥ २.७.१॥

ईङ्खयन्तीरपस्युवः (सा. १७५) इत्यत्रैकं साम । ईङ्खयन्तीः (ग्राम. ५. ७. १७५. १) इति मन्द्रादिकं त्वाष्ट्रीसामनामकम् ॥ १ ॥

गोधासाम च ॥ २.७.२॥

नकि देवा इनीमसि (सा. १७६) इत्यत्रैकंं साम । नकिदेवाः (ग्राम. ५. ७. १७६. १) इति मन्द्रादिकं गोधासाम ।। २ ॥

सवितुश्च साम ॥ २.७.३॥

दोषो आगाद् (सा. १७७) इत्यत्रैकं साम । दोषो आगात (ग्राम. ५. ७. १७७.१) इति चतुर्थमन्द्रादिकंं सवितुः साम ।। ३ ॥

उषसश्च साम ॥२.७.४॥

एषो उषा अपूर्व्या (सा. १७८) इत्यत्रैकं साम । एषोउषाः (ग्राम. ५. ७. १७८. १) इति मन्द्रादिकम् उषसः साम । सर्वे चकारा भिन्नवाक्य- द्योतकाः ॥ ४ ॥

त्वष्टुरातिथ्ये द्वे ॥२.७.५॥

इन्द्रो दधीचो अस्थिभिः (सा. १७९) इत्यत्र सामद्वयम् । इन्द्रोदधीचोअस्थभिरियाईया (ग्राम. ५. ७. १७९. १) इति क्रुष्टद्वितीया- दिकं प्रथमम् । इन्द्रोदधाइ(ह?) (ग्राम. ५. ७. १७९. २) इति मन्द्रादिकं द्वितीयम् । एते द्वे त्वष्टुरातिथ्यनामके ॥ ५ ॥

पौषं च ॥२.७.६॥

इन्द्रेहि मत्स्यन्धसः (सा. १८०) इत्यत्रैकं साम ।। न्द्रेहि माहाउ (ग्राम. ५. ७. १८०. १) इति मन्द्रादिकं पौषम् ॥ ६ ॥