सामग्री पर जाएँ

पृष्ठम्:आर्षेयब्राह्मणम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः अध्यायः (४) ६९ .

इष्टाहोत्रीयं चाप्सरसं वापांनिधिः ॥ २.४.८ ॥

इष्टा होत्रा असृक्षत (सा. १५१) इत्यत्रैक साम । इष्टाहोत्राः (ग्राम. ४. ४.१५१.१) इति मन्द्रचतुर्थादिकम् । इष्टाहोत्रीयम् । इष्टाहोत्र- शब्दयुक्तमेतन्नामधेयम् । मतो छः सूत्रसम्नोः (पा. २. ५. ५९) इति अथवा अप्सरसनामकम् , अपांनिधिनामकं वा । उदधि- [निधि ] रिति निधनत्वेन साम्नि पठितम् ॥ ८ ॥

प्रजापतेर्निधनकामं सिन्धुषाम वा ॥ २.४.९॥

अहमिद्धि पितुष्परि (सा. १५२) इति अंत्रक सामोत्पन्नम् । अहमिद्धाइ पितुःपराइ (ग्राम. ४. ४. १५२.१) इति चतुर्थमन्द्रादिक प्रजापतेः निधनकामनामकम् । औहो औहोवा हाउ वा इति सामनिधनत्वेन पठितत्वात् । यद्वा [सिन्धुषाम सिन्धुर्नाम ऋषिः तत्संबन्धि साम ।। ९ ॥]

रेवत्यश्च वाजदावर्यो वा ॥ २.४.१० ॥

रेवतीनः सधमाद (सा. १५३) इति अत्रैक सामोत्पन्नम् । रेवती- नाः (ग्राम. ४. ४. १५३. १) इति मन्द्रादिक रेवत्यः रेवतीशब्दयुक्तं साम । रेवतीपदवचने [न] सामाभिधीयते इति तत्पदस्यैवोपादानं कृतम् । तत्तु स्त्रीलिङ्ग- मिति न विरोधः । वा यद्वा वाजदावर्यः । एतन्नामधेयम् । वाजदावों भवन्ति । अन्नं वै वाजः (ता. ब्रा. १३. ९. १२.-१३) इत्यादि लिङ्गम् । वाज- दावों रेवत्यो मातरः (ता. ब्रा. १३.९.१७) इति च ब्राह्मणमनुसंधेयम् ।।१०॥

सौमापौषं च गोअश्वीयं वा ॥ २.४.११ ॥

सोमः पूषा च चेततुः (सा. १५४) इत्यस्यामेकं साम । सोमः पूषा (ग्राम. ४. ४. १५४.१) इति मन्द्रादिकम् । सोमपूषदेवताकमेतन्नामक साम । देवताद्वन्द्वे च (पा. ६. ३. २६) इत्यादिना उभयपदवृद्धिः । चकारो भिन्नवाक्यद्योतनार्थः । वा यद्वा गोअश्वीयम् एतच्छब्दयुक्तं साम । गावो अश्वा इति निधनत्वेन साम्नि पठितम् ॥ ११ ॥

इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥