पृष्ठम्:आर्षेयब्राह्मणम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः खण्डः


वैतहव्यानि त्रीणि । ओकोनिधनं वैषां तृतीयम् ॥२.५.१॥

पान्तमा वो अन्धसः (सा. १५५) इत्यत्र सामत्रयोत्पत्तिः । तत्र पान्तमावो अन्धसाः (ग्राम ४. ५.१५५.१) इति चतुर्थमन्द्रादिकम् प्रथमम् । पान्तमावोअन्धसः (ग्राम. ४. ५.१५५. २) इति चतुर्थमन्द्रादिकम् द्वितीयम् । पान्तम् (ग्राम. ४. ५.१५५. ३) इति तृतीयमन्द्रादिकं तृती- यम् । एतानि त्रीणि वैतहव्यानि । वीतहव्यो नाम ऋषिः । यद्वा एषां मध्ये तृतीयं साम ओकोनिधनम् एतन्नामधेयम् । ओका इति निधनम् गीतम् ॥ १॥

शकत्य। गौरीविते द्वे । शाक्त्यसाम चैव गौरीवितं चैव । सर्वाणि वा शाक्त्यसामानि । सर्वाणि वा गौरीवितानि ॥ २.५.२॥

प्र व इन्द्राय मादनम् (सा. १५६) इत्यत्र षट्र सामानि उत्पन्नानि । तत्र प्रवइन्द्रा (ग्राम. ४. ५. १५६. १) इति क्रुष्टद्वितीयादिकं प्रथमम् । प्रवाइन्द्रा (ग्राम. ४. ५. १५६. २) इति क्रुष्टद्वितीयकुष्टादिकं द्वितीयम् । एते द्वे शाक्त्यसामनी । शक्तिर्नाम वसिष्ठस्यापत्यम् ऋषिः । प्रवईया (ग्राम. ४.५. १५६. ३) इति द्वितीयतृतीयादिकं तृतीयम् । प्रयौहोवा (ग्राम. ४. ५. १५६. ४) इति द्वितीयक्रुष्टादिकं तुरीयम् । ते उभे गौरी- विते । एतन्नामधेयके । प्रवोददा (ग्राम. ४. ५. १५६. ५) इति द्वितीय- तृतीयादिकं प्रञ्चमं शाक्त्यं सामैव । प्रवः (ग्राम. ४. ५. १५६. ६) इति चतुर्थमन्द्रादिकं षष्ठं साम गौरीवितनामकम् । गौरीवितिर्वा एतच्छाक्त्यो