प्राकट्यमेव सर्वानर्थनिवर्त्तकम्।भूमिभारनिराकरणं च तवावश्यकम्,
अस्माकं च हितकारि । यतस्तव चरणरूपा भूः । सर्वोऽपि
स्वचरणभारं दूरीकरोति । उपास्ये च दोपाभावः सर्वेषां
हितकारी । एतत्करणं चावश्यकं, यतो हरिस्त्वम् ।
भगवज्जन्मनोऽलौकिकत्वात् क्लृप्तसाधनाभावात् सर्वात्मत्वाञ्च
भगवतोऽसम्भावितमिति दिष्ट्येत्युक्तम् । केचित्तु इदमुदरे
समागमनं भूमेर्भारहरणमेवं, न तु तव जन्मेत्याहुः । अतो
भूमावानन्द एव केवलं प्रकट इति । अन्यदपि जातमित्याह ॥
दिष्ट्याङ्कितामिति ॥ देवा अपि भुवं न स्पृशन्ति, किं पुनर्भगवान्
स्प्रक्ष्यति । अतोऽसम्भावितमपि यद्भविष्यति तद् दिष्ट्येति ।
सर्वरूपत्वाद्भगवतो मनुष्यादिरूपेण भुवं स्पृशत्येव,
किमाश्चर्यमित्याशङ्क्याह ॥ अङ्कितैरिति ॥
ध्वजवज्राङ्कुशादिचिह्ह्नैरङ्कितैः । अङ्कित्तामिति पाठे शङ्कापरिहारार्थं,
सुशोभनैः सर्वलक्षणसम्पन्नैः पादैरङ्कितां चिह्नितां गां द्रश्याम इति ।
महद्भाग्यमस्माकम् । भूमिः पदं गृह्णातीत्यपि भाग्यम् । पदं
छायामपि जनयतीत्यपि । पुरुषपदमुद्धृता च भूः, ब्रह्मणो
दुहितेति सानुरागाया भगवति दर्शनं दिष्टया । अत्र
तामित्यनुक्त्वा, गामिति यदुक्तवांस्तेन पदाङ्किता सती सर्वेषां
सकलकामदोग्ध्री भविष्यतीति सूच्यते । अपरं च, पूर्वमियमेव
या गोरूपाऽश्रुमुखीत्वादियुक्ता दृष्टा सा परमनन्दरूपपदाङ्किता
द्रक्ष्यत इत्यपि महद्भाग्यं न इत्यपि गोपदेन ज्ञाप्यते ॥ किञ्च
पादैरेवानुकम्पितां त्वया वा द्यां च द्रक्ष्यामः।
देवानां सर्वोपकारकरणाद्, अदित्याः कुण्डलदानादिना च
द्यौरनुकम्पिता। अतोऽस्माकमेव भाग्यं, यदुभयं द्रक्ष्यामः । दर्शनं
प्रमाणमाविर्भावः प्रमेयामिति ॥ ३७॥
आविर्भावं समर्थयति--