विशेषः । तदेव रूपपरिकल्पने ध्यानमित्युच्यते । चकाराद्
भगवत्सम्बन्धिनामप्यन्येषां श्रवणादिकं फलसाधकमित्युक्तम् ।।
मगलानीति ॥ तत्र प्रतिबन्धाभावो निरूपितः । अन्यथा
तस्याऽप्यसिद्धाविच्छायामपि सत्यां कार्य न स्यात् । तदर्थमन्यच्च
कर्त्तव्यमापद्येत । त इति मङ्गलरूपस्य तव । उत्तरत्र वा संबन्धः।
क्रियासु यज्ञादिषु भगवत्सेवारूपासु च लौकिकक्रियासु
यस्त्वचरणारविन्दयोराविष्टचित्तः सर्वथा भवाय संसाराय न कल्पते,
न समर्थों भवति ।। स्मरणेन क्रियाः पूर्णाश्चित्तावेशश्च तत्र हि ॥
ज्ञानक्रिये यदा विष्णुस्तदा मोक्षो न संशयः ॥ सदोष एव हि
संसारे कल्पते । एवं कृते सर्वदोषनिवृत्तौ संसारासामर्थ्यं
युक्तमेव ॥ ३६ ॥
एवं वैदिकप्रकारेण चतुष्टयमुञ्त्का स्वसिद्धान्ताऽनुसारेण चतुष्टयमाह ॥
दिष्ट्या हरेऽस्या भवतः पदो भुवो
भारोऽपनीतस्तव जन्मनेशितुः॥
दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनै-
र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३७॥
दिष्ट्येति चतुर्भिः ॥ भगवच्छास्त्रे भगवानेव प्रमाणादिचतुष्टयम् ।
भगवत्साक्षात्कारः साक्षात्कृतो वा भगवान् प्रमाणम् । भूमिप्रसङ्गाद् वयं
कृतार्था जाता इति वदन्तः सर्वमेव जगद् भगवता कृतार्थमासीदित्याहुः॥
हरे ते पदो भुवः । पादरूपाया भूमेस्ते जन्मना भारोऽपनीतः ।
मर्द्दनक्लेशस्तु परमानन्दप्राकट्येनैव गच्छतीति । भारहानौ जन्मन एव
करणत्वं, न तु किश्चित्तव कर्तव्यमस्ति । तत्र हेतुः ।। इशितुरिति ॥ ईश-