पञ्चदशभिः स्वपक्षख्यापकैः स्तुतिः ॥ पक्षपातस्तुतिर्हेषा देवानां
हितकारिणी ।* ध्रुवा तु षोडशी प्रोक्ता वृद्धौ वा तादृशो भवेत्।।
अत्र पञ्चदशभिर्भगवत्स्तोत्रमेकेन देवक्याः सान्त्वनकालः पञ्चदशात्मा
भवति । स एवावतीर्ण इति तैर्ज्ञातः स द्विविधो भवति ।
दैत्यानां हितकार्यपि पञ्चदशः । देवानामपि साधारणस्तु त्रिंंशदात्मको
भवतीति स्वपक्षपात्येव भगवानर्द्धेन निरूप्यते । स च पक्षपातः
कालकृतश्चतुर्दा भवति । लोककृतः स्मृतिकृतः । स्मृतिर्हि
लोकवेदात्मिका भवति । वेदकृतस्तृतीयः। भगवन्मार्गकृतश्चतुर्थः ।
चतुर्विधोऽपि प्रमाणप्रमेयसाधनफलैश्चतुर्धा । दैत्यकृतात्तस्य विशेष
वक्तुं तथोच्यते । तत्र प्रथमं चतुर्भिः श्लोकैः
प्रमाणप्रमेयसाधनफलान्युच्यन्ते । लोकासिद्धानि देवपक्षपातरूपाणि
निरूप्यन्ते । लोके सत्यमेव प्रमाणम् । परिदृश्यमानं जगदेव
प्रमेयम् । गुणाभिमानिनो देवा एव साधनानि । क्षेम एव फलम् ।
तत्रापि दैत्यपक्षव्यतिरेकश्च साधनीयः। तत्र प्रथमं देवानां सत्यं,
दैत्यानामनृतं प्रमाणम् । अतः सत्यरूपो भगवानवतीर्ण इति
निरूप्यते । सत्यमपि देवानां हितकारि अष्टविधं भवति,
अंशतः षोडशविधम् । वेदे सत्यं पञ्चविधं निरूपितं, सत्यं
परमित्यत्र । प्राजापत्यो हारुणिरित्यत्रापि । यत् सत्यं तत् परं
सर्वेभ्य उत्कृष्टम्। यद्वा सर्वोत्कृष्टं तत् सत्यम् । एवं
सत्यत्वसर्वोत्कृष्टत्वयोरैक्यं प्रतिपादनीयम् । अत एव सत्येन
स्वर्गलोकाच्च्युतिः कदापि न भवतीत्यामुष्मिकफलोत्कर्ष
अष्टविधं भवतीत्यादि ॥ अष्टविधत्वं चाग्रे स्पष्टीभविष्यति । यत् सत्यं तत् परमित्यादिवक्ष्यमाणश्रुत्यर्थनिरूपकमिति ज्ञेयम् । यद्वा सर्वोत्कृष्टमित्यत्र वा-शब्द एवकारार्थो वाक्यालङ्कारे । श्रुताविव स्तुतावप्येतयोरैक्यं प्रतिपादनीयमित्यतिदिशन्ति ॥ एवं सत्यत्वे-