आसीनःसंविशंस्तिष्ठन् भुञ्जानः पर्यटन् पिबन् ।
चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥२३॥
आसीन इति ॥ आसीन उपविष्टः संविशन् शयनं कुर्वन्
तिष्ठन् उत्थित इत्यवस्था उक्ताःक्रिया आह ॥ भुञ्जानः पर्यटन्
पिबन्निति ॥ एवं सर्वावस्थासु सर्वक्रियासु हृषीकेशं चिन्तयानः
स्वदर्शनार्थमेव सर्वेन्द्रियस्वामी तथा प्रेरितवान् । अतः
कृष्णमयमेव जगदपश्यत् ॥ २३ ॥
एवं पूर्वाध्याये महदुःखेन भगवचिन्तनमर्थादुक्तं कंसादीनाम् । अत्र ब्रह्मादीनां वक्तुं स्तुतिलक्षणमाख्यानमाह-
ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः॥
देवैः सानुचरैः साकं गीर्भिवृषणमैडयन् ॥२४॥
ब्रह्मेति ॥ अनेन सामान्यतः सर्वेषां निरोधोऽप्युक्तः ।
भगवदागमनं सर्वेषामेव ज्ञातमभूदिति वक्तुं कंसादिगणनाभावाय
च देवकीगृहे समागमनमुच्यते । ब्रह्मा भवो महादेवः ।
चकारादन्येऽपि गुणाभिमानिनो देवा अवताराश्च वामनादय
इत्येके । मुनयः सनकादयः, नारदादयो भक्ताः, देवा इन्द्रादयः
अनुचरा गन्धर्वादयः । सर्वैः सह गीर्भिः स्वानुकूलवाणीभिदृषणं
कामवर्षणं वृषं धर्मं वा नयतीति । ईडतुः । ब्रह्मभवयोरेव
मुख्यत्वात् । ऐडयन्नितिपाठे सहोक्तानामपिकर्तृत्वेनग्रहणम् ॥२४॥
ब्रह्मादयो देवा ऊचुः ।।
सत्यव्रतं सत्यपरं त्रिसत्यं
सत्यस्य योनिM निहितं च सत्ये॥
सत्यस्य सत्यम् ऋतसत्यनेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नाः ॥२५॥
कालात्मा भगवान् जात इति ज्ञापयितुं तथा । कलाभिः