उक्तः । ऐहिकेऽपि सतां सत्यमेव मूलं फलम् । अतः सत्यं
प्रमाणप्रमेयसाधनफलरूपमिति । ये देवपक्षपातिनस्ते सत्य एव
रमन्ते । तथाच श्रुतिः,सत्यं परं परं सत्यं सत्येन न
सुखस्वर्गाल्लोकाच्च्यवन्ते कदाचन सतां हि सत्यं तस्मात् सत्ये
रमन्त इति । तदत्रापि निरूप्यते । लोके हि व्रतमुत्कृष्टम् ।
यस्तु यत्किञ्चन व्रतमातिष्ठति स पर इत्युच्यते । तथा सत्यमपि ।
भगवतस्तूभयम् । सत्यं सत्यमेव व्रतं यस्य तादृशं त्वां शरणं प्रपन्ना
इति सम्बन्धः । एवं व्रतसत्ययोरैक्यमुक्तम् । उभयोः परत्वात् ।
अतः परं यत् परं लोके वेदे च द्वादशविधं निरूपितम् । सत्यं
तपो दमः शमो दानं धर्मः प्रजननमग्नयोऽग्निहोत्रं यज्ञो मनः
सन्यासश्चेति, तत्ं सर्व भगवतः सत्यमेव । यथार्थमेव, न तु
दैत्यानामिव तद् द्वादशविधमयथार्थम् । अत्र श्रुतिरनुसन्धेया
पूर्वनिर्दिष्टा । भगवतो व्रतानि-कौन्तेय प्रतिजानीहि, द्विःशरं
नाभिसन्धत्ते, अनश्नन्नन्योअभिचाकशीति, साधवो हृदयं
मद्यमित्यादिवाक्यः प्रतिपादितानि । लोकानुसारेण
देवहितकारिणो नियामकं सत्यमेव । अन्यथा ईश्वरः केन
नियमितः स्यात् । यथा प्रकृते स्वसत्यवाक्यादेव समागतः ।
लोके हि
त्यादिना ॥ लोके हि व्रतमुत्कृष्टमिति यदुक्तं तत्रोपपत्तिर्यस्त्वित्यादिना
उच्यते । तथाच लोके व्रतं सत्यं चेति द्विविधं सत्यं निरूपितं
भवति । मूले व्रतपदेनैतदुभयप्राप्तौ हेतुमाहुः ॥ उभयोः परत्वादिति॥
सत्यव्रतमित्यनेन सत्यं परमिति श्रुतिपदस्यार्थ उक्तो भवतीति
भावः । तेन लोके सत्यं व्रतं चेति द्वैविध्यम् । अग्रे परं सत्यामिति
श्रुत्यर्थनिरूपकं सत्यपरमिति पदं व्याकुर्वन्ति ॥ अतः परामिति ।।
अत्रापि लोके लौकिकं नियामकं वैदिकं द्वादशविधं चेति द्वैविध्यम्।।
भगवतो व्रतं लोकानुसारेण देवहितकारिणो नियामकं चेति द्वैवि-