कर्त्तव्यम् । इयं मारणीयेति चेत्तत्राह ॥ यदर्थतन्त्रो न विहन्ति
विक्रममिति ।। यद् यद्यपि मल्लक्षणो जनः, अर्थतन्त्रः कार्यतन्त्रः
स्वकार्यवशः । तथापि विक्रमं न विहन्ति स्त्रीवधे स्वस्य पराक्रमस्य
हानिरेव । अथवा अयमुदरस्थो भगवान् यद् यस्मादर्थतन्त्रः
कार्यार्थमेव समागतः । अतः स्वस्य विक्रमं न हन्ति
न नाशयति । तूष्णीं न स्थास्यतीत्यर्थः । ननु तव जीवनादृष्टे
विद्यमानेऽयं न मारयिष्यति । तदभावे तु अन्यतोऽपि त्वया
मर्त्तव्यमित्येतद्बोहोऽनुचितो यद्यपि, तथापि जीवनहेतौ
सत्येवागन्तुकेन नाशहेतुना तत्सम्भवात्तत्प्रतीकारे
प्रदीपस्येव जीवनसम्भवादस्या मारणमुचितमितिचेत्तत्राह ॥
स्त्रिया इति ।। विद्यमानेऽप्यदृष्टे अत्युत्कटदुष्कर्मकरणादायुः
क्षीयेतैव । अतो विद्यमानेऽप्यायुषि मरणसम्भवान्नैतादृशं
कर्म कर्त्तव्यम् । स्त्रिया वधो यशो हन्ति । स्त्रीरक्षार्थ
शूराणां स्वप्राणपरित्यागो यशोहेतुः । स्वसुर्वधः श्रियं
हन्ति । सर्वो हि पुरुषः सोमात्मको,लक्ष्मीश्च भगिनी ।
अतो भगिनीवधो धनादिसर्वसम्पत्तिनाशकः ।
गुरुमती गुर्विणी । सा हि प्राणिनामायुःपोषिका । तस्या
वधे आयुर्नश्यति । अतः क्रमेण तस्या वधे स्त्रियाः
स्वसुर्गुरुमत्या यशः श्रियमनुकालं तत्क्षणमेवायुश्च हन्ति ॥ २०॥
अस्तु वा प्रबलजीवनादृष्टं, तथापि न हन्तव्येत्याह-
स एष जीवन खलु संपरेतो
वर्तेत योऽत्यन्तनुशंसितेन ॥
देहे मृते तं मनुजा शपन्ति
गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥ २१ ॥
स एष इति ॥ स प्रसिद्धोऽपि एष मल्लक्षणोऽपि शौर्येण
राजलक्ष्म्या च युक्तोऽपि जीवन्नेव सम्परेतो मृतः यशःश्रीगमने