केवलं जीवनं मरणतुल्यमेवेति जीवन्नेव स सम्परेतः ॥
खल्विति निश्चये ॥ योऽत्यन्तं नृशंसितेन क्रूरकर्मणा वर्तेत
जीवेत स जीवञ्च्छव इति सत्यम् । यतः, अमृत एव
देहे तं मनुजाः शपन्ति म्रियतामयं दुरात्मेति । मृते वा
सम्यगयं दुरात्मा मृत इति । एवमयं लोकधिक्कारसन्दग्धः
परलोके च अन्धन्तमो गन्ता। तनुमानिनः सम्बन्धि
देहाभिमानिनो ये नरका अन्धन्तमोऽन्ताः, तानवश्यं
गच्छत्तीत्यर्थः । भगवत्सांनिध्याद्भगवदिच्छया तस्य तथा
ज्ञानमुत्पन्नम् । अतो भगवदिच्छया सर्वेषां ज्ञानं
प्रकारविशेषश्च ज्ञाने भासते । देवक्याः पुत्रा मारणीया
इति प्रथममुपदेशेन ज्ञानोदयः । वसुदेवस्यापि तथा
बुद्धिः । अतः सर्वस्यापि सर्वज्ञानजनको भगवानेवेति ।
कृष्णो भगवानेव एवं वाक्यैर्निश्चितः । तदर्थमेवैतानि
वाक्यानि ॥ २१ ॥
एवं विमर्श यज्जातं तदाह-
इति घोरतमाद्भावात् सन्निवृत्तः स्वयं प्रभुः॥
आस्ते प्रतीक्षस्तज्जन्म हरेवैरानुबन्धकृत् ॥२२॥
इति घोरतमाद्भावादिति ॥ अयुक्तवध एव घोरः । तत्रापि भगिन्या घोरतरः । गुरुमत्या घोरतम इति । सम्यङ्निवृत्तः । नन्वन्यप्रेरणया कथं नमारितवानित्याशङ्क्याह ॥ स्वयं प्रभुरिति ॥ स्वयमेव प्रभुर्नान्योऽस्य प्रवर्तक इत्यर्थः। जननानन्तरं युद्धं कर्त्तव्यमिति तज्जन्म प्रतीक्षन्नास्ते । तर्हि भक्तो भविष्यतीत्याशङ्क्याह । हरेर्वैरानुवन्धकृदिति ॥ हरेः सर्वदुःखहर्तुरपि पूर्वजन्ममारणलक्षणवैस्यानुबन्धं निमित्तं, तत्सम्बन्धिनां वधादिरूपं करोतीति तथा ॥ २२ ॥ एवं वैरानुबन्धनेनापि भगवच्चिन्तने प्रमाणबलाभावेऽपि प्रमेयबलेनैव तस्य ज्ञानं जातमित्याह-