सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/महावैराजम्

विकिस्रोतः तः
उद्गातोः ऊरूरोपरि अरणिमन्थनम्
महावैराजम्
इन्द्रस्य महावैराज्यम् (आरण्यकगानम् ५४).
महावैराजम्.

१३
पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
सोतुर्बाहुभ्यां सुयतो नार्वा ॥ ९२७
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
स त्वामिन्द्र प्रभूवसो ममत्तु ॥९२८॥
बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिं ।
इमा ब्रह्म सधमादे जुषस्व ॥ ९२९ ॥


१०. महावैराजम् ।। इन्द्रः । विराट् । इन्द्रः ।।
होइयाहोइयाहोइयाऽ३४३पिब ।। सोमाम् । इन्द्रमा । दतुत्वा(त्रिः) ।
पिबासोमाम् । इन्द्रमा । दतुत्वा(त्रिः) (पञ्चःद्विः) । यन्तेसुषा । वाहरिया ।
श्वाद्रिऽ२ः (द्विः) श्वाद्रिः (पञ्च त्रिः) सोतुर्बाहू। भ्याꣲसुयतो । नार्वाऽ२-(द्विः)
नार्वा-(पञ्चःत्रिः) । इयाहाउ (द्विः) इयपिबमत्स्वाऽ३ । हाउवाऽ३ ।।श्रीः।।
होइयाहोइयाहोइयाऽ३४३यस्ते ।। मदो । युजियश्चा । रुरस्ति (त्रिः) यस्ते-
मदो । युजियश्चा । रुरस्ति (त्रिः) ( पञ्च द्विः) येनवृत्रा । णीहरिया । श्वहꣲसि । (त्रिः) ( पञ्च त्रिः ।) सत्वामिन्द्रा । प्रभूवसाउ । ममत्तु ।
(त्रिः) (पञ्च त्रिः) । इयाहाउ ( द्विः) इययस्तेमत्स्वाऽ३ । हाउवाऽ३ ।। श्रीः ।। होइयाहोइयाहोइयाऽ३४३बोध ।। सुमाइ । मघवन्वा । चमेमाम् ।
(त्रिः) बोधासुमाइ । मघवन्वा । चमेमाम् । ( त्रिः) (पञ्च द्विः) । यान्तेवसाइ । ष्ठोअर्चताइ । प्रशस्तिम् ( त्रिः) (पञ्च त्रिः) ।। इमाब्रह्मा । सधमादाइ । जुषष्व ( त्रिः) ( पञ्च त्रिः) इयाहाउ ( द्विः) इयबोधमत्स्वाऽ३ । हाउवाऽ३ ।। ईऽ२३४५ ।।
दी. १०४. उ. ४८. मा. ६६. दू ।।१०।।
।। प्रथमा दशतिः ।।

[सम्पाद्यताम्]

टिप्पणी

इन्द्रस्य महावैराजम्

प्रजननं वा एतद् यद् वैराजम्। तद् यन् मिथुनाभ्यां स्तोमाभ्याम् आरभते मिथुनस्यैव प्रजात्यै। त्रयः पूर्वे स्तोभाद् एव सत्यात् प्रजाः प्रजायान्ता इति, त्रय उत्तरे प्राणो ऽपानो व्यानः। त एव तेनोपधीयन्ते। त्रिः पदम् आह। मिथुनं द्वे संभवतः। यन् मिथुनात् प्रजायते तत् तृतीयम्। त्रिर् अनुतुदति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। प्र प्रजया पशुभिर् जायते य एवं वेद। दशकृत्वो विष्टभ्नोत्य्, अस्थान्य् एव तत् प्रतिवपति। नवोत्तरे स्तोभा निधनं दशमं - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्धयै। अग्निं मन्थन्ति। अग्निर् वै विराट्। विराजम् एव तद् अन्नाद्यं प्रजनयन्ति। हिंकृत्या प्रस्तुत्य मन्थन्ति। हिंकृताद् धि रेतो धीयते। अथो साम्न एवैतन् मध्यतो विराजम् अन्नाद्यं प्रजनयन्ति। उद्गातुर् ऊरौ मन्थन्ति, प्रस्तोतृप्रतिहर्तारौ धारयतो, विराजो ऽनवच्छेदाय। दक्षिण ऊरौ मन्थन्ति। तस्माद् एष पुरुषस्यार्धो वीर्यावत्तरः। शकले ऽधि मन्थन्ति शान्त्यै। अवकास्व् अधि मन्थन्त्य् अनतिदाहाय। तं जातम् आग्नीध्रं हरन्ति। अतो ह्य् अग्नीन् विहरन्ति। तद् उ वा आहुर् आहवनीयम् एव हार्यो यजमानो वा आहवनीयः प्रजैषा। यजमानम् एव तत् प्रजया समर्धयन्ति॥जै.ब्रा ३.७०

नवरात्रस्य चतुर्थदिवसोपरि टिप्पणी