अथर्ववेदः/काण्डं ६/सूक्तम् ०७९
दिखावट
← सूक्तं ६.०७८ | अथर्ववेदः - काण्डं ६ सूक्तं ६.०७९ ऋषिः - अथर्वा। |
सूक्तं ६.०८० → |
दे. संस्फानम्। गायत्री, ३ त्रिपदा प्राजापत्या गायत्री। |
अयं नो नभसस्पतिः संस्फानो अभि रक्षतु ।
असमातिं गृहेषु नः ॥१॥
त्वं नो नभसस्पते ऊर्जं गृहेसु धारय ।
आ पुष्टमेत्वा वसु ॥२॥
देव संस्फान सहस्रापोषस्येशिषे ।
तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवांसः स्याम ॥३॥