अथर्ववेदः/काण्डं ६/सूक्तम् ०८०

विकिस्रोतः तः
← सूक्तं ६.०७९ अथर्ववेदः - काण्डं ६
सूक्तं ६.०८०
ऋषिः - अथर्वा।
सूक्तं ६.०८१ →
दे. चन्द्रमाः। १ भुरिक्, २ अनुष्टुप्, ३ प्रस्तारपङ्क्तिः।

अन्तरिक्षेण पतति विश्वा भूतावचाकशत्।
शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥१॥
ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः ।
तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये ॥२॥
अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् ।
शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥३॥