अथर्ववेदः/काण्डं ६/सूक्तम् ०४८

विकिस्रोतः तः
← सूक्तं ६.०४७ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४८
अङ्गिराः प्रचेता।
सूक्तं ६.०४९ →
दे. १ श्येनः, २ ऋभुः, ३ वृषा। उष्णिक्।

श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥१॥
ऋभुरसि जगच्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥२॥
वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे ।
स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥३॥