अथर्ववेदः/काण्डं ६/सूक्तम् ०४९

विकिस्रोतः तः
← सूक्तं ६.०४८ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४९
गार्ग्यः।
सूक्तं ६.०५० →
दे. अग्निः। १ अनुष्टुप्, २ जगती, ३ विराड्जगती।

नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः ।
कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥
मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः ।
शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥