अथर्ववेदः/काण्डं ६/सूक्तम् ०५०

विकिस्रोतः तः
← सूक्तं ६.०४९ अथर्ववेदः - काण्डं ६
सूक्तं ६.०५०
अथर्वा(अभयकामः)
सूक्तं ६.०५१ →
दे. अश्विनौ)। १ विराड्जगती, २- पथ्यापङ्क्तिः


हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् ।
यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥१॥
तर्द है पतङ्ग है जभ्य हा उपक्वस ।
ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥२॥
तर्दापते वघापते तृष्टजम्भा आ शृणोत मे ।
य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि ॥३॥