अथर्ववेदः/काण्डं ६/सूक्तम् ०४७

विकिस्रोतः तः
← सूक्तं ६.०४६ अथर्ववेदः - काण्डं ६
सूक्तं ६.०४७
अङ्गिराः प्रचेता।
सूक्तं ६.०४८ →
दे. १ अग्निः, २ विश्वे देवाः, ३ सुधन्वा। त्रिष्टुप्।

अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः ।
स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥१॥
विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः ।
आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥
इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त ।
ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥