पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
पञ्चममधिकरणम् ॥

 संप्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिकरणमारभ्यते । तत्र काव्यसमयस्तावदुच्यते--

नैकं पदं द्विः प्रयोज्यं प्रायेण ॥१॥

 एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन ।

 यथा-'पयोदपयोद' इति । किंचिद्धि चादिपदं द्विरपि प्रयोक्तव्यमिति।

नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम् ॥ २ ॥

  किरन्ती कौतुकस्मेरैः कटाक्षः करुणामृतम् ।
  समये संनिधत्तां मे संलपन्ती सरस्वती॥
 
  निर्हेतुके नियतिनिःस्पृहमुज्जिहाने
   कान्तानिभे कविवरप्रतिभाविवर्ते ।
  प्रत्यर्थिशून्यपरनिर्वृतिके प्रपञ्चे
   सारस्वतेऽस्तु समयः सुधियानुपाल्यः ॥

 प्रायोगिकं पञ्चममधिकरणमारभ्यते । अधिकरणान्तरारम्भौचित्यमासूत्रयति--संप्रतीति । संप्रतिशब्देन काव्यस्य प्रयोजनाधिकार्यात्माङ्गभेददोषगुणालंकारेषु दर्शितेषु प्रयोगनियमशब्दशुद्धयोः प्राप्तावसरत्वं प्रत्याय्यते । प्रयोगविषये नियामकत्वेन भवतीति प्रायोगिकम् । तयोः प्रथमं प्रयोगमर्यादा पर्यालोच्यत इत्याह- तत्रेति । समयः संकेतः, प्रयोगे वर्ज्यावर्ज्यनियम इति यावत् । न द्विः प्रयोज्यमिति । प्रतीतिवैरस्यादशक्तिसूचकत्वाञ्चेत्यभिप्रायः । प्रायग्रहणस्य प्रयोजनमाह-किंचिद्धीति । यथा--'ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ।' इति । आदिग्रहणात् पदानुप्रासपादयमकेषु द्विःप्रयोगो न दोषायेति द्रष्टव्यम् ।