पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११४
[संन्यस्तपितृश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(मघात्रयोदशीश्राद्धप्रयोगः)
 

 अन्नदाने--अस्मन्मातृभ्यां दाभ्यां गोत्राभ्यां वसुरूपाभ्यामिदमन्नमित्याद्यूहः । पितामहीप्रपितामह्योस्तु गन्धाद्यन्नदानान्तं पूर्ववत् । एवं सुवासिनीभोजनेऽपि ।

 पिण्डदाने--एतद्वामस्मन्मातरौ दे ये च युवामनु इति, याश्चेति केचिदूहमिच्छन्ति ।

 आञ्जाथां मातरौ दे इत्यञ्जने । अभ्यञ्जाथां मातरौ दे इत्यभ्यञ्जने ।

 बहुमातृत्वे तु--अस्मृन्मातॄणां दानां गोत्राणां वसुरूपाणाम्, अस्मत्पितामहीप्रपितामह्योश्च दयोर्गोत्रयो रुद्रादित्यरूपयोर्नवमीश्राद्धं करिष्य इति । अस्मन्मातृसापत्नमातृपितामहीप्रपितामहीनां दानां गोत्राणां वसुरुद्रादित्यस्वरूपाणामित्येव वा संकल्प उत्कीर्तनम् ।

 तथैवाऽऽसनक्षणयोः, गन्धादिप्रदानेषु च--अस्मन्मातरः, दाः, गोत्राः, वसुरूपा एष वो गन्ध इत्यादिरूहः ।

 अन्नप्रदाने मातृभ्यो दाभ्यो गोत्राभ्यो वसुरूपाभ्य इदमन्नमित्यादिरूहः । एवं सुवासिनीभोजनेऽपि । ततः पितामह्यै प्रपितामह्यै च । एतद्वोऽस्मन्मातरो दा ये च वोऽनु इति पिण्डदाने । अङ्ग्ध्वं मातरो दा इत्यञ्जने । अभ्यङ्ग्ध्वं मातरो दा इत्यभ्यञ्जने । अन्यत्समानम् ।

 श्राद्धोत्तरं तदहरेव शुक्लतिलैः श्राद्धेज्यपितॄणां तर्पणं विधाय[१], अनाहिताग्निश्चेदत्र श्राद्धान्नेन वैश्वदेवं कृत्वा बन्धुभिः सह भुञ्जीतेति[२] । सापत्नमात्रभावे केवलं स्वमातृवर्गस्यैवैतत्कार्यम् । अजीवत्पितृकेण तु पितुर्महालय एव मातृतृप्तेरपि संपादितत्वान्नैतत्कार्यमिति केचित् । इति नवमीश्राद्धप्रयोगः ।

अथ द्वादश्यां कर्तव्यसंन्यस्तपित्रुद्देश्यश्राद्धप्रयोगः ।

 उक्तापराह्णे--अस्मत्पितृपितामहप्रपितामहानां ब्रह्मीभूतानाममुकामुकशर्मणां वसुरुद्रादित्यस्वरूपाणामित्येवमुच्चारणेन सर्वं संकल्पप्रभृति सकृन्महालयवत्कुर्यात् । मन्त्रव्यतिरिक्तस्थले सर्वत्र ब्रह्मीभूतपदोच्चारणमधि[३]कं मन्त्रेषु त्वभिध्यानमात्रम् । इति द्वादश्यां कर्तव्यसंन्यस्तपित्रुद्देश्यश्राद्धप्रयोगः ।

अथ मघात्रयोदशीश्राद्धप्रयोगः ।

 [४]पितृवर्गस्य सपत्नीकस्य मातामहवर्गस्य सपत्नीकस्योत्कीर्तनं कृत्वा मघात्रयोदशीश्राद्धं सांकल्पविधिना करिष्य इति संकल्प्य पूर्वोक्तसांकल्पवि


  1. क. च. य व ।
  2. ङ. ति । इ ।
  3. ङ. धिकम् ।
  4. एतस्मात्पूर्वं ङ. पुस्तके मघात्रयोदश्यामित्यधिकम् ।