धानेन सर्वं कुर्यात् । ततो वर्गद्वयस्य तिलतर्पणम् । इति मघात्रयोदशीश्राद्धप्रयोगः ।
अथ शस्त्रहतचतुर्दशीश्राद्धप्रयोगः ।
मध्या[१]ह्ने श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्कृतवैश्वदेवो देशकालकीर्तनान्ते--अस्मत्पितुः शर्मणो गोत्रस्य वसुरूपस्य शस्त्रहतस्य चतुर्दश्यां श्राद्धमेकोद्दिष्टविधिनाऽद्य करिष्य इति संकल्प्य वै(वि)श्वदेवार्थमेकं विप्रं निमन्त्र्य पित्रर्थमेकं निमन्त्रयेत् ।
ततः पादप्रक्षालनाद्याच्छादनान्तं वैश्वदेविकं कर्म विधायैकोद्दिष्टविधिना पित्र्यं कुर्या[२]द्देवरहि[३]तं वा । पिण्डदान एक एव पिण्डः । तदहरेव तिल[४]रहितं तर्पणम् ।
पितृपितामहौ यदि शस्त्रहतौ तदा द्वयोरप्येकोद्दिष्टविधिरेव ।
यदि त्रयोऽपि शस्त्रहतास्तदा पार्वणैकोद्दिष्टयोर्विकल्पः । पार्वणपक्षेऽपराह्ण एव श्राद्धम् ।
सर्वपितृतृप्त्यर्थममावास्यायां भिन्नो महालयः कर्तव्य एव । इति शस्त्रहतचतुर्दशीश्राद्धप्रयोगः ।
अथ दौहित्रप्रतिपच्छ्राद्धप्रयोगः ।
आश्विनशुक्लप्रतिपद्युक्तापराह्णे संगवे[५] वा श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्पृथक्पाकेन वैश्वदेवं कृत्वाऽस्मन्मातामहमातुःपितामहमातुःप्रपितामहानां शर्मणां गोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानां तृप्त्यर्थमाश्विनशुक्लप्रतिपच्छ्राद्धं सांकल्पविधिना करिष्य इति संकल्प्य पूर्वोक्तसांकल्पविधानेन सर्वं कृत्वा तद्वर्गमात्रस्य शुक्लतिलैस्तदहरेव तर्पणं कृत्वा[६], अनाहिताग्निश्चेद्वैश्वदेवं कृत्वा श्राद्धशेषमिष्टैः सह भुञ्जीत । इति दौहित्रप्रतिपच्छ्राद्धप्रयोगः ।
अथ तीर्थश्राद्धप्रयोगः ।
काश्यादितीर्थप्राप्तौ स्नानादिकं विधाय तिलतर्पणं कृत्वा देशकालौ संकीर्त्य पुरूरवार्द्र० प्राची० पित्राद्याप्तान्तान्महालयवदुच्चार्य तीर्थश्राद्धं करिष्य इति संकल्प्य क्षेत्रवासिनोऽन्यान्वा ब्राह्मणान्महालयवन्निमन्त्र्यार्घ्यावाहनाङ्गुष्ठनिवेशनतृप्तिप्रश्नविकिरविसर्जनवर्जं महालयश्राद्धवत्सर्वं कुर्यात्[७] । दृग्दो