भर्तुरेकोद्दिष्टत्वपक्षे[१] श्वशुरादित्रयोद्देशानन्तरं श्वश्रूतच्छ्वश्रूतच्छ्वश्रूणामिति तिसृणामुद्देशः । सपत्नीकत्वोल्लेखपक्ष एवर्जुरिति स एव कर्तव्यः । अस्मिन्कल्पे[२] भर्तृशब्दोत्तरं[३] श्वशुरपार्वणे मातामहपार्वणे च सपत्नीकशब्दोच्चार[४]णम् । ततः स्वपितृव्यादीनामपि शक्तौ सत्यां कीर्तनम् । एवं यथाधिकारं संकल्पं कृत्वा कंचिद्ब्राह्मणमृत्विक्त्वेन विभाव्य तद्द्वारा सर्वं कारयेत् । तदभावे स्वयमेव वैदिकमन्त्रवर्जं सर्वं विधिमाचरेत्[५] । स्वमात्रादिपार्वणचतुष्टयमपुत्रविषयकमिति नवीनाः । परेद्युस्तर्पणम् । इति विधवाकर्तृकश्राद्धप्रयोगः ।
अथ नवमीश्राद्धप्रयोगः ।
उक्तापरा[६]ह्णे श्रौताग्निमान्स्मार्ताग्निमान्वा चेत्पृथक्पाकेन वैश्वदेवं कृत्वाऽऽप्रकोष्ठात्प्राचीनावीतं कृत्वाऽस्मन्मातृपितामहीप्रपितामहीनां दानां गो० वसुरु०, अस्मत्सापत्नमातुः, दायाः, गोत्राया वसु० नवमीश्रा[७]द्धमहं करिष्य इति संकल्प्य वैश्वदेवार्थं द्वावेकं वा विप्रं निमन्त्र्य मातृपार्वणार्थं विप्रत्रयं सापत्नमात्रर्थमेकं सर्वार्थमेकं वा निमन्त्र्य पादप्रक्षालनादि सर्वं मातृवर्गपार्वणवत् । सापत्नमातर्येकोद्दिष्टवत् ।
प्रपितामह्यनन्तरं सापत्नमातुः कीर्तनमासनादिपिण्डदानान्तेषु पदार्थेष्वित्येकः पक्षः ।
अपरस्तु मात्रा सहैव सापत्नमातरमुल्कीर्त्य पितामहीप्रपितामह्योरुत्कीर्तनमिति ।
अस्मिन्पक्षेऽस्मन्मात्रोरमुकामुकदयोर्गोत्रयोर्वसुरूपयोः पितामहीप्रपितामह्योर्दयोर्गोत्रयो रुद्रादित्यरूपयोरिति । अस्मन्मातृसापत्नमातृपितामहीप्रपितामहीनां दानां गोत्राणां वसुरुद्रादित्यस्वरूपाणामित्येव वोत्कीर्तनं सर्वत्र । अस्मिन्पक्षे सापत्नमातर्यपि पार्वणविधिरेव ।
अस्मन्मात्रोः स्थानं[८] त्वां निमन्त्रये क्षणः करणीयः । पितामहीस्थाने प्रपितामहीस्थाने[९] त्वां निमन्त्रये क्षणः करणीय इति निमन्त्रणादिषु प्रयोगः । अर्घ्यदानं तु मात्रे सापत्नमात्रे च पृथगेव ।
गन्धादिप्रदानेषु--अस्मन्मातरौ दे गोत्रे वसुरूपे एष युवां गन्ध इत्याद्यूहः ।