आशोचान्तऽसंभव तु व्यासः--
"श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके । |
हेमाद्रौ षट्त्रिंशन्मतेऽपि--
"मासिके चाऽऽब्दिके त्वह्नि संप्राप्ते मृतसूतके । |
गोभिलः--
"देये प्रत्याब्दिके श्राद्धे अन्तरा मृतसूतके । |
मरीचिः--
"श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि । |
विशेषत इत्युक्तेः शुक्लायामपि । आशौचेतरविघ्न एतदिति माधवपृथ्वीचन्द्रौ ।
यत्तु--
"तदहश्चेत्प्रदुष्येत केनचित्सूतकादिना । |
इत्यत्रिवचनं तत्पूर्वकालासंभवे ज्ञेयम् । एतदाब्दिकेतरविषयम् ।
यच्च--
"एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्रजायते । |
इति तदपि मासिकपरमिति मदनरत्ने हेमाद्रौ[१] च । व्याध्यादौ विस्मरणे चैवं ज्ञेयम् । इति श्राद्धविघ्ने निर्णयः ।
अथ श्राद्धभोजने प्रायश्चित्तानि ।
तत्र श्राद्धानि त्रिविधानि । नवनवमिश्रपुराणाख्यानि । तत्रान्तर्दशाहश्राद्धानि नवश्राद्धानि, एकादशाहश्च । षोडशैकोदिष्टानि नवमिश्राणि सपिण्डीकरणं च । ततः पुराणानि । तत्राऽऽपदि नवश्राद्धभोजने कायम् । एकादशाहैकोदिष्टे कायं पादोनकायं वा । द्वादशाह ऊनमासे च पादोनं कायमेव कुर्यात् । द्विमासे त्रिपक्ष ऊनषाण्मासिक ऊनाब्दिके चार्धकृच्छ्रः । त्रिमासाद्याब्दिकान्तेषु सपिण्डने चाऽऽद्याब्दिके चोपवासः पादकृच्छ्रो वा । प्रत्यब्दे पुराणे च नक्तम् । द्रव्यार्थं नवश्राद्धे भोजने त्रिरात्रं, द्वादशाहादौ द्विरात्रं, मासादावुपवासः । त्रिमासादौ नक्तं पञ्चगव्याशनं च । प्रत्यब्ददर्शादिषु पुराणेषु षट्प्राणायामाः । वृद्धौ त्रयः प्राणायामाः । तत्रैव निस्पृहभोक्तुर्जपशी
- ↑ क. द्रौ । व्या ।