पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[श्राद्धभोजने प्रायश्चित्तानि]
१०५१
संस्काररत्नमाला ।

लिनो वा तदर्धम् । क्षत्रियादिषु श्राद्धेषु द्वित्रिचतुर्गुणानि क्रमात्कार्याणि । अनापदि तु नवश्राद्धे चान्द्रं कायं च । द्वादशाहादौ कायमेव । द्विमासादौ पादोनं, त्रिमासाद्यब्दान्तेषु त्रिरात्रमर्धकायं वा । आद्याब्दिके पादकायं, प्रत्याब्दिके तूपवासः । क्षत्रियस्य तु नवश्राद्धे चान्द्रम् (न्द्रे) । आद्यमासिके चान्द्रं पराकश्च । द्वादशाहादौ पराकः । आब्दिकद्विमासत्रिपक्षादौ महासांतपनं, त्रिमासादौ कायम् । आब्दिके पादोनं, प्रत्याब्दिके त्वर्धं, पुराणे पादोन(दपरिमित)म् । वैश्यस्य त्वेतान्येव व्रतानि सार्धानि । शूद्रस्य द्विगुणानि । यद्वा नवश्राद्धे चा[१]न्द्रद्वयं सार्धं चान्द्रं च । द्वादशाहादौ सार्धं चान्द्रमेव । द्विमासत्रिपक्षादौ चान्द्रं त्रिमासादौ पराकः । अ[२]ब्दे सह(महा)सांतपनम् । चण्डालानामुदकसर्पब्राह्मणपशुदंष्ट्रिवैद्युतप्रपतनविषोद्बन्धनादिमृतानां पापिनां पतिताद्यभोजनानां च नवश्राद्धे चा[३]न्द्रे । आद्यमासिकं चान्द्रं पराकश्च । द्वादशाहादौ पराक एव । पक्षद्विमासत्रिमासेष्वतिकृच्छ्रः । मासादौ कायोऽ(यम)ब्दे पादः प्रत्यब्दे तूपवासः । धनिकानां द्रव्यार्थभोजिनां चैवम् । अपाङ्गेयानामेकादशाहे चान्द्रम् । यतिव्रतिब्रह्मचारिणां तु सूतकान्ननवश्राद्धमासिकादौ भुक्तावुक्तं प्रायश्चित्तं कृत्वाऽधिकं त्रिरात्रं प्राणायामत्रयं घृतप्राशनं च कृत्वा व्रतशेषं समापयेत् । अनापदि तु कायं त्रिरात्रमेकरात्रं वोपवासः प्राणायामत्रयं पञ्चगव्यप्राशनमित्यधिकम् । अभ्यासे तप्तकृच्छ्रादि द्विगुणम् । आमहेमसांकल्पिकश्राद्धेषूक्तार्धम् । यद्वाऽनापद्यामश्राद्धे कायं तप्तकृच्छ्रं वा शक्तश्चरेत् । हेमश्राद्धे त्रिरात्रं कायं च । सांकल्पिकश्राद्धे तूपवासस्त्रिरात्रं च । दैवात्सूतकव्यवहितेषु तु ब्राह्मणक्षत्रियवैश्यशूद्रश्राद्धेषु एकोद्दिष्टे तु कृच्छ्रातिकृच्छ्रतप्तकृच्छ्रचान्द्राणि । द्वादशाहादिषु पादं पादं ह्रासयेत् । अतिव्यवहितेषु तु त्रिरात्रादिकम् । गुरुविषये तूपवासनक्तषट्प्राणायामाः । अनापदि सर्वत्र द्विगुणम् । अतिश्रोत्रियदर्शादिश्राद्धेष्वनुक्तप्रायश्चित्तेषु च गायत्र्या दशकृत्वोऽपः पीत्वा संध्यामुपासनहोमं च यथोचितं कुर्यात् । नामकरणे जातकर्मणि चाङ्गश्राद्धे सूतक आमश्राद्धे चूड(डा)होमान्ते चौलश्राद्धे सीमन्ते सोमे ब्रह्मौदने चामत्या चाऽऽपदि च भुक्त्वा सांतपनम् । मत्याऽनापदि च चान्द्रम् । अन्येषु संस्कारेषु तूपवासो नित्यस्त्रिरात्रं चानापदि । अन्यदत्ता कन्याऽन्यस्मै पुनर्दत्ता सा पुनर्भूस्तद्विवाहेऽसंस्कृते पूर्वगर्भे पूर्ववत्सांतपनं चान्द्रं वा । सर्वस्त्रीप्रथमगर्भे च । ([४] असंस्कृते पूर्वे गर्भे प्रसूते द्वितीये गर्भ संस्कारे या सा पु[५]नारताः(ता(?))


  1. क. ख. च. चान्दं ।
  2. क. ख. च. अब्देन ।
  3. क. ख. ङ. चान्द्रम् ।
  4. धनुश्चिह्नान्तर्गतं ख. च. पुस्तकयोर्नास्ति ।
  5. ङ. पुनरताः ।