"पूर्वाह्णे चेदमावास्या अपराह्णे न चेद्यदि । |
वचनापादिताया अमावास्यायाः सत्त्वात्तत्रैवानुष्ठानमिति तात्पर्यम् । अत एव मृताहतिथेर्विहिताया अपराह्णेऽसत्त्वेऽपि साकल्यवचनापादिततिथिसत्त्वादपराह्ण एव श्राद्धानुष्ठानमिति सांवत्सरिकश्राद्धप्रकरणे हेमाद्रिमाधवादिसिद्धान्तः संगच्छते ।
तस्मात्--
"भूतविद्धाममावास्यां मोहादज्ञानतोऽपि वा । |
इत्याद्युदाहृतकार्ष्ण्याजिन्यादिवचनैर्निरग्निकानां निषिद्धाया भूतविद्धायाः ।
"प्रतिपत्म्वप्यमावास्या पूर्वाह्णव्यापिनी यदि । |
इत्यादिजाबाल्यादिवचनैरुत्तरदिने कुतपोत्तराव्यापित्व एव पूर्वविद्धाभ्यनुज्ञानात्--"पूर्वाह्णे चेदमावास्या अपराह्णे न चेद्यदि" इतिवचनाद्द्वैधाविभक्तदिनस्य कुतपोत्तरार्धादिरूपापराह्णव्यापिन्यमावास्या निरग्निकैः श्राद्धे ग्राह्येति सिद्धम् ।
"आहिताग्नेस्तु यो धर्मो गृह्याग्नेरपि स स्मृतः" |
इति वृद्धप्रवादाद्गृह्याग्निमतामप्ययमेवामावास्यानिर्णयः ।
इति दर्शश्राद्धतिथिनिर्णयः ।
अथ सांवत्सरिकश्राद्धतिथिनिर्णयः ।
तत्र या मुख्यापराह्णव्यापिनी पूर्वा परा वा सैव ग्राह्या ।
"अपराह्णव्यापिनी या पार्वणे सा तिथिर्भवेत्" । |
इति वृद्धगौतमवचनात् ।
मात्स्ये--
"अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । |