"तिथ्यादिषु भवेद्यावान्ह्रासो वृद्धिः परेऽहनि । |
इति वचनादधिककालकल्पनयाऽपराह्णेऽपि निमित्तभूततिथिसंभवादि[१] सिद्धान्तयतां हेमाद्र्यादीनामुक्तार्थ एव स्वारस्याच्च । इदं च तिथिक्षये । तिथिवृद्धौ तिथिसाम्ये चोत्तरा ग्राह्या ।
तथा च व्या[२]घ्रः--
"खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् । |
खर्वः साम्यम् । दर्पो वृद्धिः । हिंसा क्षयः । उभयत्र साम्येनैकदेशव्याप्तावप्येवमेव । यदा तु वैषम्येणोभयत्रैकदेशव्याप्तिस्तदा यत्राधिककालव्यापिनी सैव ग्राह्येति । एकोद्दिष्टश्राद्धे तु मध्याह्नव्यापिनी तिथिर्ग्राह्या ।
तथा च वृद्धगौतमः--
"मध्याह्नव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर्भवेत् । |
हारीतः--
"आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं तु मध्यतः । |
मनुः--
"पूर्वाह्णे दैविकं श्राद्धमपराह्णे तु पार्वणम् । |
दैविकं श्राद्धं हेमाद्रौ पा[३]राशरः--
"देवानुद्दिश्य क्रियते यत्तद्दैविकमुच्यते । |
अत्र कर्मणो यस्य यः काल इति वचनात्कर्मकालव्यापिनी तिथिर्ग्राह्या ।
इति सामान्यतः श्राद्धतिथिनिर्णयः ।
अथ दर्शश्राद्धतिथिनिर्णयः ।
तत्र शातातपः[४]--
"दर्शश्राद्धं तु यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् । |
अत्र विशेषमाह कात्यायनः--
"पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । |
राजनि चन्द्रे क्षीणे । त्रेधाविभक्तदिनतृतीयभागेऽपराह्ण इति हेमाद्रिः । सायाह्नात्प्राचीनोऽपराह्ण एवाभिप्रेतः । ईषन्न्यूनोऽपराह्णः सायाह्नसहितस्तृती