हेमाद्रौ छागलेयः--
"केवलास्तु क्षये कार्या वृद्धावादौ प्रकीर्तिताः । |
दीपिकायां तु मातृयजनं त्वन्वष्टकास्वादित इत्युक्तम् ।
हेमाद्रौ ब्राह्मेऽपि--"अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते" इति ।
अत्र शाखाभेदेन व्यवस्थेति पृथ्वीचन्द्रोदये । जीवत्पितृकविषयमिति निर्णयदीपे । एतच्च नित्यम् ।
"अष्टकान्वष्टकास्तिस्रस्तथैव च नृपोत्तम । |
इति हेमाद्रौ विष्णुधर्मोत्तरात् । अत एवेदं स्वतन्त्रं प्रधानं नाष्टकाङ्गं, पूर्वेद्युः--श्राद्धं त्वष्टकाङ्गमेव, फलवत्संनिधावफलं तदङ्गमिति न्यायादिति केचित् । अन्ये तु--अन्वष्टकातः पृथगेवेदं मातुः श्राद्धमिति परास्तं, लाघवेन मूलैक्यादन्वष्टकापदाविशेषाच्च । तेनान्यत्रान्वष्टकाश्राद्धस्याङ्गस्याप्यत्र प्रधानत्वं वचनादित्याहुः । इयमेवान्वष्टकाऽक्षय्यनवमी सौभाग्यनवमीति व्यवह्रियते पामरैः । न तत्र कर्मभेदे प्रमाणं किंचिदस्ति । अजीवत्पितृकेण शक्तौ सत्यामेतस्यामष्टस्यामष्टकाश्राद्धमपि कर्तव्यम् । एतस्या अष्टम्या अष्टकात्वं गौतमेनोक्तम्--तथा महालयाष्टमीति । स्मृत्यन्तरेऽपि--
"प्रोष्ठपद्यष्टका भूयः पितृलोके भविष्यति" इति । |
एतदङ्गभूतत्वात्पूर्वेद्युःश्राद्धान्वष्टकाश्राद्धेऽप्येतस्या अन्वष्टकायाः प्रधानीभूतान्वष्टकानुष्ठानेन प्रसङ्गसिद्धिरिति द्रष्टव्यम् । अत्रैव नवम्यां मृतमातृकस्य जीवत्पितृकस्य श्राद्धमावश्यकम् । तदुक्तं निर्णयामृते मैत्रायणीयपरिशिष्टे--
"आन्वष्टक्यं गयाप्राप्तौ सत्यां यच्च मृतेऽहनि । |
अग्निगुराणे--
"अन्वष्टकासु वृद्धौ च गयायां च क्षयेऽहनि । |
यथा जीवत्पितृकस्य सर्वा अन्वष्टका आवश्यकास्तथेयमप्यावश्यकी--
"सर्वासामेव मातॄणां श्राद्धं कन्यागते रवौ । |
इति हेमाद्रौ सुमन्तूक्तेः । अत्र सर्वासामित्युक्तेः स्वमातरि जीवन्त्यामपि