पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१६
[महालये विश्वदेवनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

नवीनाः । पितृव्याद्येकोद्दिष्टानां तु पुत्रवत्तस्या अपीति प्रघट्टके । विधवा स्वयं संकल्पं कृत्वाऽन्यद्ब्राह्मणद्वारा कारयेदिति प्रयोगपारिजाते । अत्र धूरिलोचनौ विश्वे देवाः ।

"अपि कन्यागते श्राद्धे काम्ये च धूरिलोचनौ" ।

 इत्यादित्यपुराणात् ।

 अत्र कन्यागत इत्युपलक्षणम् ।

"आदौ मध्ये तथाऽप्यन्ते यत्र कन्यां रविर्व्रजेत् ।
स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रति" इतिवचनात् ॥

 तथा च कन्यागते कन्याग[त]त्वोपलक्षिते भाद्रपदापरपक्षश्राद्धे धूरिलोचनावित्यर्थ इति हेमाद्रिः । अन्ये तु कन्यागत इत्यनेन कन्यासंक्रमणस्य साक्षान्निमित्तत्वबोधनेनोपलक्षणत्वे प्रमाणाभावात्कन्यासंक्रान्तिनिमित्तके श्राद्ध एव धूरिलोचनौ न महालयश्राद्धे । तत्र तु पुरूरवार्द्रवावेवेति [आहुः] । कन्यासंक्रान्तिनिमित्तकं श्राद्धं तु प्रोष्टपदीश्राद्धम् ।

"नान्दीमुखानां प्रत्यब्दं कन्याराशिगतौ रवौ" ।

 इतिवचनेन कन्याराशिनिमित्तत्वस्यैव बोधनात् । इदं च महालयश्राद्धं नित्यं काम्यं च ।

"वृश्चिके समनुप्राप्ते पितरो दैवतैः सह ।
निश्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदारुणम्" ॥

 इतिकार्ष्णाजिनिवचनेनाकरणे प्रत्यवायस्योक्तत्वात् ।

"पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा ।
प्राप्नोति पञ्चमे कृत्वा श्राद्धं कामांश्च पुष्कलान्" ॥

 इति तत्रैव जाबालिवचने फलश्रवणाच्च । पञ्चमे पञ्चमे पक्षे महालय इत्यर्थः । एतस्य पञ्चमत्वं तु--

"आषाढ्याः पञ्चमः पक्षः स महालयसंज्ञकः"

 इतिवचनसिद्धम् । महालयस्य नित्यतयाऽनुष्ठाने तु पुरूरवार्द्रवावेव । काम्यतयाऽनुष्ठाने तु काम्ये तु धुरिलोचनावितिशास्त्राद्धुरिलोचनावेवेति ।

आश्वलायनः--

"अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् ।
पित्रादि मातृमध्यं च ततो मातामहान्तकम्" इति ॥

ब्रह्माण्डेऽपि--

"पितॄणां प्रथमं दद्यान्मातॄणां तदनन्तरम् ।
ततो मातामहानां च आन्वष्टक्ये क्रमः स्मृतः" इति ॥