पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१८
[अनेकमातृकत्वे विशेषः]
भट्टगोपीनाथदीक्षितविरचिता--

सपत्नमातृभ्यो दद्यात् । तन्मरणे सति तस्यै ताभ्यश्च दद्यात् । तच्च पार्वणमेव कुर्यात् ।

"आन्वष्टक्यं च यन्मातुर्गयाश्राद्धं महालयम् ।
पितृपत्नीषु च श्राद्धं सर्वं पार्वणवद्भवेत्" ॥

 इति बृहन्मनूक्तेरिति श्राद्धदीपकलिकायाम् । अन्ये तु--पितृव्यभ्रातृमातॄणामितिवाक्यादेकोद्दिष्टमेव न पार्वणमित्याहुः ।

 तत्र विशेषः--

"अनेका मातरो यस्य श्राद्धे चाऽऽपरपक्षिके ।
अर्घ्यदानं पृथक्कुर्यात्पिण्डमेकं तु निर्वपेत्" इति ॥

 यन्मातुर्जनन्या आन्वष्टक्यं गयाश्राद्धं महालयश्राद्धं च पार्वणवद्यथा तथा पितृपत्नीपु जननीव्यतिरिक्तासु सर्वास्वपि श्राद्धमान्वष्टक्यादि तत्सर्वं पार्वणवदेव भवेदिति वाक्यार्थः । पितृव्यभ्रातृमातॄणामेकोद्दिष्टं न पार्वणम्' इतिवचनेन प्राप्तस्य पार्वणधर्मस्य बाधोऽनेन क्रियते । पितृपत्नीषु पितृपत्नीनामित्यर्थः । श्राद्ध इत्यत्र तीर्थ इति कुत्रचित्पाठः । पिण्डो(ण्डं) ब्राह्मणाय देयं भोज्यं बर्हिषि प्रदेयं च, एकं तु निर्वपेत्, मात्रो(त्रु)द्देशेनैकमेव दद्यात्, द्विवचनादिनाऽनेकमात्रुद्देशेन दद्यादित्यर्थः । तत्र प्रकारः--अस्मिन्पक्षे सपत्नमातॄणां मात्रनन्तरमेव निर्देशः संकल्पे क्षणादिषु च । मातृपार्वणेऽनेकब्राह्मणपक्ष--अस्मन्मात्रोरमुकगोत्रयोरमुकामुकदयोर्वसुरूपयोरित्यूहः । तथैवाऽऽसनाक्षय्ययोः । गन्धादिप्रदानेषु अस्मन्मातरावमुकामुकदे अमुकगोत्रे वसुरूपे एष युवां गन्ध इत्यादि । अन्नदाने मातृभ्यां दाभ्यां गोत्राभ्यां वसुरूपाभ्यामिदमन्नमित्यूहो मातृद्वित्वे । बहुत्वे तु अस्मन्मातॄणां दानां गोत्राणां वसुरूपाणां, मातरो दाः, गोत्राः, वसुरूपाः । मातृभ्यः, दाभ्यः, गोत्राभ्यः, वसुरूपाभ्य इत्यूहः । एवं पिण्डदानेऽपि । आन्वष्टक्यं च यन्मातुरित्यनन्तरोदाहृतबृहन्मनूक्त्या महालये यदि सपत्नमातॄणां पार्वण[१]श्राद्धं क्रियते तदाऽप्येवमेव । एतच्चाशक्तिविषयम् । शक्तस्तु--पृथक्ब्राह्मणभोजनं पृथक्पिण्डदानं च कुर्यादिति प्रघट्टके । अत्र सुवासिनीभोजनमुक्तं मार्कण्डेयपुराणे--

"मातुः श्राद्धे तु संप्राप्ते ब्राह्मणैः सह भोजनम् ।
सुवासिनीभ्यो दातव्यमिति शातातपोऽब्रवीत् ॥
भर्तुरग्रे मृता नारी सह दाहेन वा मृता ।
तस्याः स्थाने नियुञ्जीत विप्रैः सह सुवासिनीम्" इति ॥


  1. क. णवच्छ्राद्धं ।