पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
(बौड्यविहाराख्यं शूलग
वाङ्गभूतं प्रतिपत्तिकर्म)
९१५
संस्काररत्नमाला ।


स्वाहा' इति चतुर्भिर्मन्त्रैश्चत्वारि[१], एकस्मिन्प्रदेश एव चतुर्षु देशेषु [ वा ] समीपे स्थापयति[२]

 तत एवमन्यस्मिन्प्रदेश उत्तरमन्त्रैः । 'ॐ घोषिण उपस्पृशत घोषिभ्यः स्वाहा' 'ॐ निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहा' 'ॐ अन्वासारिण उपस्पृशतान्वासारिभ्यः स्वाहा' 'ॐ प्रयुन्वन्त उपस्पृशत प्रयुन्वद्भ्यः स्वाहा' ॐ विचिन्वन्त उपस्पृशत विचिन्वद्भ्यः स्वाहा' 'ॐ समश्नन्त उपस्पृशत समश्नद्भ्यः स्वाहा' इति षड्भिः षट्[३]

ततोऽन्यस्मिन्प्रदेशे । 'ॐ देवसेना उपस्पृशत देवसेनाभ्यः स्वाहा' एतेन दश । प्रतिपर्णं मन्त्रावृत्तिः । 'ॐ या आख्याता देवसेना याश्चानाख्याता उपस्पृशत ताभ्यः स्वाहा' एतेन दश । प्रतिपर्णं मन्त्रावृत्तिः । अथैतेषामेव पर्णानां शलाकासंतर्दनेन पुटं कृत्वा तस्मिन्स्रुवेणोपस्तीर्य, ओदनशेषत एकं पिण्डं कृत्वा पुटेऽवधायाभिघार्य तमादाय कोशद्वयाधिकमध्वानं शत्रोर्गोः संचारभूमिं वा गत्वा 'ॐ निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहा' इति कस्मिंश्चिद्वृक्षे तं पुटं बध्नाति । 'ॐ निषङ्गिन्नुपस्पृश निषङ्गिणे स्वाहा' इत्येकवचनान्तं पाठं केचिदाहुः ।

 नमो निषङ्गिण इत्यस्याग्नी रुद्रो यजुः । पुटोपस्थाने विनियोगः-- 'ॐ नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमः' इति बद्धं पुटमुपतिष्ठते ।

 ततो होमदेशं प्रत्येत्य हस्तपादप्रक्षालनं कृत्वाऽऽचम्याऽऽसादिते चान्दनानुलेपनवर्ष्योदके आसादितानखण्डयवानखण्डतण्डुलान्वाऽऽसादितगोमयदूर्वास्तम्बोदुम्बरपलाशशमीविकङ्कताश्वत्थशाखा गोवालांश्चैकीकृत्य गाः प्रोक्षति । तत्र पुंगवमेवाऽऽदौ प्रोक्षति पश्चादितराः । शिवो भवेत्येतावान्प्रोक्षणमन्त्रः । [४]वीप्सा प्रतिद्रव्यमावृत्तिप्राप्त्यर्थम् ।

 केचित्तु शिवो भव शिवो भवेत्येतावानेक एव मन्त्र इत्याहुः ।

 ततः कर्माङ्गत्वेन ब्राह्मणान्भोजयित्वा प्रमादादिति विष्णुं संस्मरेत् । एवं कृते शूलगवो रुद्रः प्रीतो भवति । शिवो हैव भवतीति वचनात् ।

 अथ तस्मिन्दिनेऽनन्तरमेव क्षेत्रपतिदेवताकः स्थालीपाकः कार्यः । स च शूलगवाङ्गभूत एव । तदर्थं प्रज्वलितमग्निं कृत्वा ध्यायेत् । नात्रान्वाधानमनग्नि


  1. ख. ङ. च. रि देशान्तरे स्था ।
  2. ख. ङ. च. ति । एवमुत्तरत्राप्युत्तरैः । घो ।
  3. ख. ङ. च. द । दे ।
  4. एतेन शिवो भवेति द्विवारमपेक्षितं पूर्वत्रेति भाति ।