पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१४
(बौड्यविहाराख्यं शूलग-
वाङ्गभूतं प्रतिपत्तिकर्म)
भट्टगोपीनाथदीक्षितविरचिता--
 

'ॐ भीमाय देवाय स्वाहा' 'ॐ महते देवाय स्वाहा' इत्येतैर्जुहोति । यथा--लिङ्गं त्यागः । रुद्राहुत्युत्तरमुदकस्पर्शः ।

 अथ द्वितीयमोदनमानीय तथैव जुहोति । 'ॐ भवस्य देवस्य पत्न्यै स्वाहा' 'ॐ रुद्रस्य देवस्य पत्न्यै स्वाहा' 'ॐ शर्वस्य देवस्य पत्न्यै स्वाहा' 'ॐ ईशानस्य देवस्य पत्न्यै स्वाहा' 'ॐ पशुपतेर्देवस्य पत्न्यै स्वाहा' 'ॐ उग्रस्य देवस्य पत्न्यै स्वाहा' 'ॐ भीमस्य देवस्य पत्न्यै स्वाहा' 'ॐ महतो देवस्य पत्न्यै स्वाहा' इत्येतैर्जुहोति । यथालिङ्गं त्यागः ।

 अथ तृतीयमोदनमानीय 'ॐ जयन्ताय स्वाहा' इत्येतेनाष्टवारमावृतेनाष्टाऽऽहुतीस्तथैव जुहोति । जयन्तायेदमिति त्यागः ।

 ततः स्रुवेण दर्व्यामुपस्तीर्य सर्वेभ्य ओदनेभ्यः सकृत्सकृत्समवदाय सहैव दर्व्यां निधायाभिघार्य स्विष्टकृद्धर्मेण जुहोति 'ॐ अग्नये स्विष्टकृते स्वाहा' इति । अग्नये स्विष्टकृत इदमिति त्यागः । सहैव दर्व्यां निधानं समवदायेतिशब्दान्न लभ्यते।

 परिकर्मिण इध्माधानसमयेऽग्नेर्दक्षिणतश्चोत्तरतश्चाऽऽत्मीया गा यथा हूयमानस्य हविषो गन्धं घ्रातुं शक्नुयुस्तथा स्थापयेयुः ।

 तत्तः शुल्बप्रहरणादिहोमशेषं समापयेत् ।

 ततः--'ॐ स्वस्ति नः पूर्णमुखः परिक्रामतु' इति मन्त्रेण कुट्यादिसहितमग्निं प्रदक्षिणं परिक्रम्य नमस्ते रुद्रेत्यस्य प्रश्नस्याग्निर्ऋषिः । रुद्रो देवता[१] । ([२]प्रथमानुवाकमन्त्राणामनुष्टुबादीनि च्छन्दांसि द्वितीयानुवाकादिनवमानुवाकान्तानां मन्त्राणां यजुः । दशमानुवाकमन्त्राणामास्तारपङ्क्त्यादीनि च्छन्दांसि । एकादशानुवाकमन्त्राणामनुष्टुप्छन्दो यजुश्च । ) शूलगवोपस्थाने विनियोगः । 'ॐ नमस्ते रुद्र मन्यवे० जम्भे दधामि' इति शूलगवमुपतिष्ठते । सानुषङ्गैर्मन्त्रैरिति केचित् । प्रथमोत्तमानुवाकाभ्यां वा ।

अथ बौड्यविहाराख्यं शूलगवाङ्गभूतं प्रतिपत्तिकर्मोच्यते ।

 प्रागासादितानि त्रिंशत्पलाशपर्णानि बौड्यानि तेषां विहारो विहरणं नानादेशेषु स्थापनम् । 'ॐ गृहपोषस्पृश गृहपाय स्वाहा' 'ॐ गृहप्युपस्पृश गृहष्यै स्वाहा' 'ॐ द्वारपोषस्पृश द्वारपाय स्वाहा' 'ॐ द्वारप्युपस्पृश द्वारष्यै


  1. ख. च. ता । शूल ।
  2. धनुश्चिह्नान्तर्गत ग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"महाविराट्छन्दः" इति ।