पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१६
(बौड्यविहाराख्यं शूलग-
वाङ्गभूतं प्रतिपत्तिकर्म)
भट्टगोपीनाथदीक्षितविरचिता--


साध्यत्वात् । अग्नेः परिस्तरणे विकल्पः । ततोऽग्नेरुत्तरतो दर्भानास्तीर्य तेषु दर्वीमाज्यस्थालीं प्रोक्षणीपात्रं चरुस्थालीं[१] शूर्पं कृष्णाजिनमुलूखलं मुसलं चत्वारि सप्त वा पलाशपर्णा[२]न्युपवेषं मेक्षणं संमार्गदर्भानवज्वलनदर्भानाज्यं चेति पात्राण्यासाद्य पवित्रे कृत्वाऽग्नेः पश्चाच्छूर्पं निधाय तस्मिन्पवित्रे निधाय क्षेत्रस्य पतये चतुरो मुष्टीन्निरू(रु)प्य तूष्णीं किंचिदन्वोष्य प्रोक्षणीः संकृत्य हविः पात्राणि च प्रोक्षेत् ।

 ततः कृष्णाजिनास्तरणादिफलीकरणान्तं पत्न्येव कुर्यात् ।

 ततः कर्ता चरुस्थालीं सोदकामौपासनाग्नावधिश्रित्य तस्यां तण्डुलानोप्य श्रपयति । न वा निर्वापादि । किंतु पर्याप्तान्व्रीहीन्गृहीत्वा पत्न्याऽवघातं कारयित्वाऽवघातनिष्पन्नांस्तण्डुलान्सोदकायां स्थाल्यामोप्य श्रपयति । कृष्णाजिनासादनं कृताकृतम्[३]

 पर्यग्निकरणं तु कर्तव्यमेव । ततो दर्वीं मेक्ष[४]णं च संमृज्याऽऽज्यं संस्कुर्यात् । तत्राऽऽज्येन सह चरोः पर्यग्निकरणम् । ततः शृतं चरुमभिघार्योदगुद्वास्य दर्वीं मेक्षणमाज्यं दर्भमुष्टिं पलाशपर्णानि चाऽऽदाय गवां मार्गे होमार्थं देशं दर्भैः परिस्तीर्य तदुत्तरतो दर्भेषु दर्व्यादीनि निधाय होमदेशस्य पश्चात्कुटीं कृत्वा तत्राऽऽसादितानि पलाशपर्णानि संस्थाप्य 'ॐ आ त्वा वहन्तु० हव्याय क्षेत्रस्य पतो३म्' इति तेषु क्षेत्रस्य पतिमावाहयति ।

 ततस्तूष्णीमुदकाञ्जलिं दत्त्वा 'ॐ उपस्पृशतु क्षेत्रस्य पतिः क्षेत्रस्य पतये स्वाहा'इति कृत्स्नं चरुं तत्संनिधौ स्थापयति ।

 ततश्चरुमभ्याहृत्य होमदेशं परिषिच्य मेक्षणेनोपहत्य, 'ॐ क्षेत्रस्य पतये स्वाहा' इति परिषिक्ते देशे जुहोति । क्षेत्रस्य पतय इदं० ।

 अयं च होमः संनिधौ चरुस्थापनादनन्तरं झटित्येव कार्यः । न तु मध्ये कालविलम्बः कार्यः । 'नूर्ते यजते पाको देवः' इतिवचनात् । नूर्ते शीघ्रं यजते कुतः स देवः पाकः पचनशीलस्तीक्ष्णस्तस्मादेवेति मातृदत्तः[५] । पाको बालो बालवद्गमनशीलाय क्षेत्रस्य पतय आवाहनोत्तरं क्षिप्रं शीघ्रं बलिं दद्यादित्यर्थ इति सुदर्शनः ।

 ततः पुनर्भूय उपहत्य 'ॐ अग्नये स्विष्टकृते स्वाहा' इति जुहोति । अग्नये स्विष्टकृत इदं० । दर्व्यैव वा होमः । अस्मिन्पक्षे न मेक्षणस्य संमार्गः । ततो


  1. ख. ङ. च. लीं मेक्षणं शू ।
  2. ख. ङ. च. र्णानि सं ।
  3. क. म् । ततो ।
  4. ख. ङ. च. क्षणमाज्यं च सं ।
  5. ङ. च. त: । पाको देवः पा ।