अथर्ववेदः/काण्डं २/सूक्तम् १८
← सूक्तं २.१७ | अथर्ववेदः - काण्डं २ सूक्तं २.१८ चातनः। |
सूक्तं २.१९ → |
दे. अग्निः। (द्वैपदम्) साम्नी बृहती। |
भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाहा ॥१॥
सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाहा ॥२॥
अरायक्षयणमस्यरायचातनं मे दाः स्वाहा ॥३॥
पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाहा ॥४॥
सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाहा ॥५॥
सायणभाष्यम्
चतुर्थेऽनुवाके नव सूक्तानि । तत्र 'भ्रातृव्यक्षयणम्' इति प्रथमसूक्तेन अभिचारकर्मणि शरसमिदाधानम् कृष्णव्रीहियवतिलाद्यावपनं च कुर्यात् (तु. कौसू ४८,१; २)।
अत्र 'अरायक्षयणम्' इत्याद्यास्तिस्रः चातनगणे ( कौसू ८,२५ ) पठिताः । अतस्तस्य गणस्य यत्रयत्र विनियोगस्तत्रतत्र आसां विनियोगो द्रष्टव्यः।
भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाहा ॥१॥
भ्रातृव्यऽक्षयणम् । असि । भ्रातृव्यऽचातनम् । मे । दाः । स्वाहा ॥ १ ॥
अत्रापि होमाधारोग्निः संबोध्यः होमद्रव्यं वा । हे अग्ने त्वं भ्रातृव्यक्षयणम् असि भ्रातृव्यः शत्रुः । भ्रातृशब्दाद् 'व्यन्त्सपत्ने' (पा ४,१,१४५ ) इति व्यन्प्रत्ययः । तस्य क्षयणं विनाशनम् असि । क्षि क्षये इत्यस्माद् भावे करणे वा ल्युट् । अतो मे मह्यं भ्रातृव्यचातनम् भ्रातृव्यनाशनम् । चातयतिर्नाशनकर्मा (तु. नि ६,३०) इत्युक्तम् । दाः देहि । स्वाहेति पूर्ववद् योज्यम् ।
सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाहा ॥२॥
सपत्नऽक्षयणम् । असि । सपत्नऽचातनम् । मे । दाः । स्वाहा ॥ २ ॥
सपत्नशब्दः शत्रुपर्यायः । 'व्यन्त्सपत्ने' (पा ४,१,१४५ ) इति सूत्रे सपत्नशब्दः सपत्नीव सपत्न इति इवार्थे अकारप्रत्ययान्तो व्याख्यातः । यद्यपि भ्रातृव्यसपत्नशब्दौ पर्यायौ तथाप्यत्र उभयोरपि पृथगुपादानाद् आत्मीयानात्मीयरूपेण भेदो द्रष्टव्यः । गतम् अन्यत् ।
अरायक्षयणमस्यरायचातनं मे दाः स्वाहा ॥३॥
अरायऽक्षयणम् । असि । अरायऽचातनम् । मे । दाः । स्वाहा ॥३॥
अरायक्षयणम् अरायाः अदायिनः दानोपलक्षितनिखिलश्रेयोविघ्नकारिणः । तेषां क्षयणम् । रा दाने इत्यस्य नञा बहुव्रीहिः । अन्यत् पूर्ववत् ।
पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाहा ॥४॥
पिशाचऽक्षयणम् । असि । पिशाचऽचातनम् । मे । दाः । स्वाहा ॥ ४ ॥
पिशाचाः पिशिताशिनो भूतविशेषाः। पिशितं मांसम् अश्नन्तीति ‘कर्मण्यण्' (पा ३,२,१)। पृषोदरादिषु पाठात् पिशिताशशब्दयोः पिशाचौ आदेशौ । गतम् अन्यत् ।
सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाहा ॥५॥
सदान्वाऽक्षयणम् । असि । सदान्वाऽचातनम् । मे । दाः । स्वाहा ॥ ५॥
सदान्वाक्षयणम् सदा नोनूयमाना आक्रोशकारिण्यः पिशाच्यः। सदान्वा इति निःसालसूक्ते ( अ २,१४ ) व्याख्यातम् ।
इति द्वितीयकाण्डे चतुर्थेऽनुवाके प्रथमं सूक्तम्॥