सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् १७

विकिस्रोतः तः
← सूक्तं २.१६ अथर्ववेदः - काण्डं २
सूक्तं २.१७
ब्रह्मा।
सूक्तं २.१८ →
दे. प्राणः, अपान-, आयुः। (एकावसानम्) १-६ एकपदासुरी त्रिष्टुप्, ७ आसुरी उष्णिक्।

ओजोऽस्योजो मे दाः स्वाहा ।१॥
सहोऽसि सहो मे दाः स्वाहा ॥२॥
बलमसि बलं दाः स्वाहा ॥३॥
आयुरस्यायुर्मे दाः स्वाह ॥४॥
श्रोत्रमसि श्रोत्रं मे दाः स्वाह ॥५॥
चक्षुरसि चक्षुर्मे दाः स्वाह ॥६॥
परिपाणमसि परिपाणं मे दाः स्वाह ॥७॥


सायणभाष्यम्

'ओजोसि' इत्यनेन आयुष्कामः पूर्वम् उक्तप्रकारेण त्रयोदश द्र्व्याणि जुहुयात् । सूत्रं तु तत्रैवोदाहृतम् ।


ओजोऽस्योजो मे दाः स्वाहा ।१॥

ओजः । असि । ओजः । मे । दाः । स्वाहा ॥ १ ॥ अत्र सूक्ते देवताविशेषस्य अश्रवणात् होमाधारभूतोऽग्निः संबोध्यः हूयमानद्रव्यं वा । हे अग्ने हूयमानद्रव्य वा त्वम् ओजः। आत्मनः । ओजः शरीरस्थितिकारणम् अष्टमो धातुः । तद् उक्तम् आचार्यैः --

'x x x ओजो नामाष्टमी दशा ।

क्षेत्रज्ञस्य तद् ओजस्तु केवलाश्रय इष्यते ॥

यथा स्नेहः प्रदीपस्य यथाऽभ्रम् अशनित्विषः।' इति।

तथाविधम् ओजः त्वम् असि । तद्धेतुत्वात् ताच्छब्द्यम् । 'आयुर्वै घृतम्' (तै २,३,११,५) इतिवत् । अतो मे मह्यम् ओजः उक्तलक्षणं दाः देहि । स्वाहा स्वाहुतम् इदम् अस्तु । ओज इति । उब्ज आर्जवे । 'उब्जेर्बले बलोपश्च' ( पाउ ४, १९२ ) इति असुन् बलोपश्च।


सहोऽसि सहो मे दाः स्वाहा ॥२॥

सहः । असि । सहः । मे। दाः । स्वाहा ॥ २ ॥

सहः शत्रूणाम् अभिभवनसमर्थं तेजोऽसि । सहतेरभिभवार्थाद् असुन् । अन्यत् पूर्ववत् ।


बलमसि बलं दाः स्वाहा ॥३॥

बलम् । असि । बलम् । मे । दाः । स्वाहा ॥ ३ ॥

स्पष्टोर्थः।


आयुरस्यायुर्मे दाः स्वाह ॥४॥

आयुः । असि । आयुः । मे । दाः । स्वाहा ॥ ४ ॥

आयुश्चिरकालजीवनम् असि । अतः शतसंवत्सरपरिमितम् आयुर्मे *[दाः] देहि ।


श्रोत्रमसि श्रोत्रं मे दाः स्वाह ॥५॥

श्रोत्रम् । असि । श्रोत्रम् । मे । दाः । स्वाहा ॥ ५ ॥


चक्षुरसि चक्षुर्मे दाः स्वाह ॥६॥

चक्षुः । असि । चक्षुः । मे । दाः । स्वाहा ॥ ६॥

पञ्चमीषष्ठ्यौ निगदसिद्धे।


परिपाणमसि परिपाणं मे दाः स्वाह ॥७॥

परिऽपानम् । असि । परिऽपानम् । मे । दाः । स्वाहा ॥ ७ ॥

परिपाणम् परितः पालनम् । तद्धेतुत्वात् ताच्छब्द्यम् । परिपालक इत्यर्थः। अतः परिपाणम् परितः सर्वतः आयुर्भङ्गनिमित्तभूतेभ्यः पालनं [दाः] देहि । परिपूर्वात् पातेर्भावे ल्युट् । 'कृत्यचः' (पा ८,४,२९) इति नस्य णत्वम् ।

इति द्वितीये काण्डे तृतीयेऽनुवाके सप्तमं सूक्तम् ।

इति द्वितीयोऽनुवाकः समाप्तः।