अथर्ववेदः/काण्डं २/सूक्तम् १९

विकिस्रोतः तः
← सूक्तं २.१८ अथर्ववेदः - काण्डं २
सूक्तं २.१९
अथर्वा।
सूक्तं २.२० →
दे. अग्निः। (एकावसानम्) १-४ नृचिद्विषमा गायत्री,५ भुरिग्विषमा।

अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥


सायणभाष्यम्

'अग्ने यत् ते' इत्यादिभिः पञ्चभिः सूक्तैरभिचारकर्मणि पुरस्ताद्धोमान् आज्येन' जुहुयात् ( तु. कौसू ४७,८)।


अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥

अग्ने । यत् । ते । तपः । तेन । तम् । प्रति । तप । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः ॥ १ ॥

हे अग्ने पृथिवीस्थान ते त्वदीयं यत् तपः संतापनशक्तिः तेन तपसा तम् शत्रुं प्रति लक्षीकृत्य तप प्रज्वलितो भव । 'लक्षणेत्थंभूताख्यान' (पा १,४,९०) इत्यादिना प्रतेः कर्मप्रवचनीयसंज्ञा । 'कर्मप्रवचनीययुक्ते” (पा २,३,८) इति द्वितीया । यद्वा कर्मणि द्वितीया । तं शत्रुं प्रति तप। प्रतिकूलं प्रतिमुखं प्रत्यवयवं वा तपेत्यर्थः । यः शत्रुरस्मान् द्वेष्टि द्वेषं करोति यं च शत्रुं वयं द्विष्मः अप्रियं कुर्मः । तम् इति पूर्वेण संबन्धः । अनेन व्यतिहारनिर्देशेन अभिचारप्रत्यभिचारयोरुभयत्रापि अस्य मन्त्रस्य सामर्थ्यं दर्शितं भवति।


अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥

अग्ने । यत् । ते । हरः । तेन । तम् । प्रति । हर । यः ०० ॥ २ ॥

हरतीति हरः संहरणसामर्थ्यम् । क्रोधनामसु पाठात् क्रोधो वा । हरतेरसुन् । तेन हरसा तम् शत्रुं प्रति हर संहर । गतम् अन्यत् ।


अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥

अग्ने । यत् । ते । अर्चिः । तेन । तम् । प्रति । अर्च । यः ०० ॥ ३ ॥

अर्चतिरत्र धातूनाम् अनेकार्थत्वाद् दीप्त्यर्थः। तेन अर्चिषा तं प्रत्यर्च प्रतिदग्धुं दीप्तो भव । उक्तम् अन्यत्।


अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥

अग्ने । यत् । ते । शोचिः । तेन । तम् । प्रति । शोच । यः ०० ॥ ४ ॥

शोचिः शोकजननसामर्थ्यम् । शुच शोके इत्यस्मात् 'अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः' (पाउ २,१०८ ) इति करणे इसिप्रत्ययः । तेन शोचिषा तं प्रति शोच शोकयुक्तं कुरु ।


अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥

अग्ने । यत् । ते । तेजः। तेन । तम्। अतेजसम् । कृणु। यः ०० ॥५॥

तेज: तीक्ष्णं पराभिभवनसामर्थ्यम् । तिज निशाने इत्यस्माद् असुन् । तेन तेजसा तम् शत्रुम् अतेजसं निस्तेजस्कं कृणु कुरु । गतम् अन्यत् । यद्यप्यत्र सूक्ते क्रमेण निर्दिष्टास्तपोहरोर्चिःशोचिस्तेजःशब्दाः पञ्चापि यास्केन ज्वलन्नामसु पठितास्तथापि सर्वेषाम् अत्रोपादानाद् उक्तप्रकारेण धात्वर्थभेदाद् भेदोवगन्तव्यः। इति चतुर्थेऽनुवाके द्वितीयं सूक्तम् ।