सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् ०४

विकिस्रोतः तः
← सूक्तं २.०३ अथर्ववेदः - काण्डं २
सूक्तं २.४
अथर्वा।
सूक्तं २.०५ →
दे. (चन्द्रमाः,) जङ्गिडः। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः।,

दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।
मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥
जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्।
मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥
अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।
अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥
देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।
विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥
शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् ।
अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥
कृत्यादूषिरयं मणिरथो अरातिदूषिः ।
अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥

सायणभाष्यम्

'दीर्घायुत्वाय' इति सूक्तेन कृत्यादूषणार्थम् , आत्मरक्षार्थम् , विघ्नशमनार्थं च जङ्गिडाख्यवृक्षविशेषमणिं शणसूत्रप्रोतं कृत्वा संपात्य अभिमन्त्र्य बध्नीयात् । “ 'दीर्घायुत्वाय' इति मन्त्रोक्तं बध्नाति” ( कौसू ४२,२३ ) इति सूत्रम् ।


दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।

मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥

दीर्घायुऽत्वाय । बृहते । रणाय । अरिष्यन्तः । दक्षमाणाः । सदा । एव ।

मणिम् । विस्कन्धऽदूषणम् । जङ्गिडम् । बिभृमः । वयम् ॥ १ ॥

दीर्घायुत्वाय चिरकालजीवनाय । 'छन्दसीणः' (पाउ १,२) इति एतेः उण् प्रत्ययः । यद्वा दीर्घायुष्ट्वाय 'एतेर्णिच्च, (पाउ २,११८ ) इति उसिप्रत्ययः। सकारलोपश्छन्दसः। बहुव्रीहेर्भावे त्वप्रत्ययः। दीर्घम् आयुः अस्माकं यथा स्याद् इत्येवमर्थं बृहते महते रणाय रमणीयाय प्रशस्याय कर्मणे । अभिलषितकर्मानुष्ठानविघ्नशान्तय इत्यर्थः । 'बृहन्महतोरुपसंख्यानम्' ( पावा ६,१,१७० ) इति विभक्तेरुदात्तत्वम् । 'वशिरण्योरप्युपसंख्यानम्' ( पावा ३,३,५८) इति रणतेः शब्दार्थात् कर्मणि अप्प्रत्ययः । अरिष्यन्तः अविनश्यन्तः । अहिंसनाद्धेतोरित्यर्थः । रुष रिष हिंसायाम् ‘लक्षणहेत्वोः क्रियायाः' (पा ३,२,१२६) इति हेतौ शतृप्रत्ययः। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। सदैव सर्वदैव रक्षमाणाः आत्मानं पालयमानाः। रक्ष पालने इत्यस्माद् व्यत्ययेन आत्मनेपदम् । हेतौ शानच् । आत्मरक्षणाद्धेतोरित्यर्थः । विस्कन्धदूषणम् । विस्कन्धः रक्षःपिशाचादिकृतगतिप्रतिबन्धात्मकः शरीरशोषणरूपो वा विघ्नः तस्य निवारकम् । विपूर्वात् स्कन्दर्घत्रि धत्वं छान्दसम् । दुष वैकृत्ये । अस्माद् ण्यन्तात् करणे ल्युट् । ‘दोषो णौ' (पा ६,४,९०) इति ऊत्वम् । जङ्गिडम् । जङ्गिडः वृक्षविशेषो वाराणस्यां प्रसिद्धः । तेन साधितं मणिं *[वयं] बिभृमो धारयामः । डुभृञ् धारणपोषणयोः श्लौ 'भृञामित्' (पा ७,४,७६) इत्यभ्यासस्य इत्त्वम् ।


जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्।

मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥

जङ्गिडः । जम्भात् । विऽशरात् । विऽस्कन्धात् । अभिऽशोचनात् ।

मणिः । सहस्रऽवीर्यः । परि । नः । पातु । विश्वतः ॥ २ ॥

जम्भात् हिंसकात् कृत्यादेः । यद्वा जम्भ इति दन्तविशेषस्य आख्या । राक्षसदन्तविशेषकृतात् खादनाद् इत्यर्थः । विशरात् शरीरविशरणात् । शॄ हिंसायाम् इत्यस्मात् 'ऋदोरप्' (पा ३,३,५७)। विस्कन्धात् विघ्नात् रक्षःपिशाचादिकृताद् रोगादिरूपात् अभिशोचनात् कृत्याकृताच्छोकात् सहस्रवीर्यः अपरिमितसामर्थ्यो जङ्गिडः [जङ्गिड]वृक्षविकारो मणिः नः अस्मान् विश्वतः विश्वस्माद् उदीरिताज्जम्भादेः परि पातु परिरक्षतु । 'उपसर्गाद् बहुलम्' (पा ८,४,२८ ) इति नसोपि णत्वम् । विश्वतः इति । विश्वशब्दात् 'पञ्चम्यास्तसिल्' (पा ५,३,७) । 'लिति' (पा ६,१,१९३) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् ।


अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।

अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥

अयम् । विऽस्कन्धम् । सहते । अयम् । बाधते । अत्त्रिणः ।

अयम् । नः । विश्वऽभेषजः । जङ्गिडः । पातु । अंहसः ॥ ३ ॥

अयं जङ्गिडो मणिः विस्कन्धम् परकृतं सहते । अभिभवतीत्यर्थः। अयम् उक्तो मणिः अत्रिणः अत्तॄन् भक्षकान् कृत्यादीन् बाधते नाशयति । अद भक्षणे इत्यस्माद् 'अदेस्त्रिनिश्च' ( पाउ ४,६८) इति त्रिनिप्रत्ययः । अयं मणिः नः अस्माकं विश्वभेषजः विश्वेषां रोगादीनां निवर्तकः । यद्वा विश्वं कृत्स्नं भेषजं यस्मिन् । सकलौषधात्मक इत्यर्थः । 'बहुव्रीहौ विश्वं संज्ञायाम्' (पा ६,२,१०६) इति पूर्वपदान्तोदात्तत्वम् । जङ्गिडो मणिः अंहसः पापात् पातु रक्षतु ।


देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।

विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥

देवैः । दत्तेन । मणिना । जङ्गिडेन । मयःऽभुवा ।

विऽस्कन्धम् । सर्वा । रक्षांसि । विऽआयामे । सहामहे ॥ ४ ॥

देवैः अग्न्यादिभिः दत्तेन । अनेन अमोघवीर्यत्वम् अस्योक्तम् । मयोभुवा । मय इति सुखनाम । तद् भवत्यस्माद् इति मयोभूः । 'क्विप् च' (पा ३,२,७६ ) इति क्विप् । यद्वा मयसः सुखस्य भावयिता उत्पादयिता । अन्तर्णीतण्यर्थाद् भवतेः क्विप् । तेन जङ्गिडेन उक्तेन मणिना । करणे तृतीया । विस्कन्धम् विघ्नं [तथा] तद्धेतुभूतानि सर्वा सर्वाणि रक्षांसि रक्षःशब्दोपलक्षितान् भूतप्रेतपिशाचादीन् व्यायामे संचरणे । निमित्तभूते सतीत्यर्थः । व्याङ्पूर्वाद् यमेर्भावे घञ् । 'नोदात्तोपदेशस्य मान्तस्य' (पा ७,३,३४ ) इति वृद्धिप्रतिषेधो न भवति, अस्य अनुदात्तोपदेशत्वात् । यद्वा व्यायच्छन्ति संचरन्ति अस्मिन्निति अधिकरणे घञ् । संचरणप्रदेशे सहामहे अभिभवामः ।


शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् ।

अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥

शणः । च । मा । जङ्गिडः । च । विऽस्कन्धात् । अभि । रक्षताम् ।

अरण्यात् । अन्यः । आऽभृतः । कृष्याः । अन्यः । रसेभ्यः ॥ ५ ॥

शणः प्रसिद्धः मणिबन्धनसूत्रप्रकृतिभूतः । जङ्गिड उक्तः। चशब्दौ परस्परसमुच्चयार्थौ । तावुभौ विस्कन्धात् उक्ताद् मा माम् अभि रक्षताम् अभितः सर्वतः पालयताम् । तावेव दर्शयति-- अन्यः तयोरेकः जङ्गिड इत्यर्थः । अरण्याद् वनाद् आभृतः आहृतः। 'हृग्रहोर्भश्छन्दसि” ( पावा ८, २,३२) इति भत्वम् । अन्यः एकः शणः कृष्याः। कृषिः कर्षकव्यापारविशेषः । तस्मात् रसेभ्यः ओषधिसारभूतकाष्ठेभ्यः । आभृत इति संबन्धः। एवम् आनीतौ शणजङ्गिडौ विस्कन्धाद् रक्षताम् इति संबन्धः।


कृत्यादूषिरयं मणिरथो अरातिदूषिः ।

अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥

कृत्याऽदूषिः । अयम् । मणिः । अथो इति । अरातऽदूषिः ।

अथो इति । सहस्वान् । जङ्गिडः । प्र । नः । आयूंषि । तारिषत् ॥ ६॥

मणेः प्रशंसापूर्वकम् अभिलषितफलसाधनत्वं प्रदर्श्यते -- अयम् उक्तो मणिः कृत्यादूषिः । परकृताभिचारक्रियाजन्या पीडाकरी काचिच्छक्तिः कृत्या। तस्या निवारकः। दुषेर्ण्यन्ताद् ‘अच इ: ' ( पाउ ४,१३६) इति इकारप्रत्ययः। अथो अपिच अरातिदूषिः । अरातयः शत्रवः । तेषां दूषकः। अथो अपिच सहस्वान् सहः अभिभवनसाधनं बलम् अभिभवनं वा तद्वान् । 'तसौ मत्वर्थे' (पा १,४,१९) इति सकारान्तस्य भत्वेन पदत्वाभावाद् रुत्वाभावः। एवंगुणविशिष्टो जङ्गिडः नः अस्माकम् आयूंषि प्र तारिषत् । प्रपूर्वस्तरतिर्वृद्ध्यर्थः । प्रवर्धयतु । प्र ण इति । 'उपसर्गाद् बहुलम्' (पा ८,४,२८) इति णत्वम् । तारिषदिति । तरतेः पञ्चमलकारे 'सिब्बहुलं लेटि' (पा ३,१,३४ ) इति सिप् । 'सिब्बहुलं छन्दसि णिद् वक्तव्यः' ( पावा ३,४,३४ ) इति सिपो णिद्वद्भावाद् वृद्धिः। 'लेटोऽडाटौ' (पा ३,४,९४ ) इत्यडागमः । 'इतश्च लोपः परस्मैपदेषु' (पा ३,४,९७) इति इकारलोपः।


इति द्वितीयकाण्डे प्रथमेऽनुवाके चतुर्थं सूक्तम् ।