सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् ०५

विकिस्रोतः तः
← सूक्तं २.०४ अथर्ववेदः - काण्डं २
सूक्तं २.५
भृगुराथर्वणः।
सूक्तं २.०६ →
दे.इन्द्रः। त्रिष्टुप्, .........

इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।
पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥
इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न ।
अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥
इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न ।
बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥
आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः ।
श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥
इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।
अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥
अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥
वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य ।
आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥

सायणभाष्यम्

'इन्द्र जुषस्व' इति सूक्तेन बलकामः इन्द्रं यजते उपतिष्ठते वा । यद् आह कौशिकः -- "'इन्द्र जुषस्व' इतीन्द्रं बलकामः” ( कौसू ५९,५) इति ।

सोमाभिषवकाले अभिषवहोमेषु च अस्य विनियोगः। उक्तं वैताने-- "इन्द्र जुषस्व इति राज्ञ्यभिषूयमाणेऽभिषवणहोमान् जुहोति” (वैताश्रौ १३,११ ) इति।

तथा षोडशिग्रहे इन्द्रोपस्थानेऽपि एतत् सूक्तम्। [उक्तं] वैताने -– “षोडशिग्रहेषु 'इन्द्र जुषस्व' इतीन्द्रम्” (वैताश्रौ २५,१४ ) इति ।

तथा 'ऐन्द्रीं विजयबलपुष्टिपशुकामस्य परचक्रागमे च' (शाक १७,२) इति विहितायां महाशान्तौ एतत् सूक्तं योजयेत् । उक्तं शान्तिकल्पे-- 'अथावापिकाः शान्तयः' इति प्रक्रम्य " 'इन्द्र जुषस्व' इत्यैन्द्र्याम्” ( शाक १८,१-४ ) इति ।


इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।

पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥

इन्द्र । जुषस्व । प्र । वह । आ । याहि । शूर । हरिऽभ्याम् ।

पिब । सुतस्य । मतेः । इह । मधोः । चकानः । चारुः । मदाय ॥ १ ॥

हे इन्द्र परमैश्वर्ययुक्त जुषस्व प्रीयस्व । जुषी प्रीतिसेवनयोः। प्र वह प्रकृष्टम् अभिलषितं फलं प्रापय । हे शूर शौर्ययुक्त हरिभ्याम् एतन्नामकाभ्याम् अश्वाभ्याम् । 'हरी इन्द्रस्य' इति हि यास्कः ( निघ १,१५ )। ताभ्याम् आ याहि अस्मदीयं यज्ञं प्रति आगच्छ । आगत्य इह अस्मिन् यज्ञे सुतस्य अभिषुतस्य मतेः। कर्मणि क्तिन् । मननीयस्य । प्रशस्यस्येत्यर्थः । यद्वा मतिरिति मेधाविनाम । तत्संबन्धिन इत्यर्थः । मधोः मधुररसस्य सोमस्य । भागम् इति शेषः। यद्वा क्रियाग्रहणं कर्तव्यम्' ( पावा १,४,३२) इति कर्मणः संप्रदानसंज्ञायां 'चतुर्थ्यर्थे बहुलं छन्दसि' (पा २,३,६२ ) इति षष्ठी। उक्तविधं सोमं पिब । 'द्व्यचोतस्तिङः' ( पा ६,३,१३५ ) इति सांहितिको दीर्घः । एवं पीतः सोमः चकानः । चक तृप्तौ इति धातोः शानच् । छान्दसः शपो लुक् । तर्पयन्नित्यर्थः। यद्वा कै गै रै शब्दे इत्यस्मात् कर्मणि लिटः कानच् । स्तूयमानः चारुः दशापवित्रेण शोधितत्वान्निर्मल: मदाय मदोत्पत्तये । भवतु इति शेषः। 'मदोऽनुपसर्गे' (पा ३,३,६७ ) इति भावे अप्प्रत्ययः।


इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न ।

अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥

इन्द्र । जठरम् । नव्यः । न । पृणस्व । मधोः । दिवः । न ।

अस्य । सुतस्य । स्वः । न । उप । त्वा । मदाः । सुऽवाचः । अगुः ॥ २ ॥

हे इन्द्र नव्यो न नूतन इव। 'वस्वपसोककविक्षेमोदकवर्चोनिष्केवलोक्थजनपूर्वनवसूरमर्तयविष्ठेभ्यो यत्' ( तु. पाम. ४,४,१४०, ५,४,३०) इति नवशब्दात् स्वार्थे यत्प्रत्ययः। उपमानोत्तरस्थो नञ् उपमार्थे वर्तते। “ दुर्मदासो न सुरायाम्' (ऋ ८,२,१२) 'इत्युपमार्थीयः। उपरिष्टाद् उपाचारस्तस्य येनोपमिमीते' इति यास्कवचनात् ( नि १,४ ) । अनेन आदरातिशय उक्तः। मधोः मधुररसस्य सोमस्य भागेन जठरम् स्वोदरकुहरं पृणस्व पूरय । पृण प्रीणने तौदादिकः अत्र पूरणकर्मा । तत्र दृष्टान्तः -- दिवो न दिवः स्वर्गस्य संबन्धिना अमृतेनेव । ततश्च सुतस्य अभिषुतस्य अस्य सोमस्य सुवाचः शोभनाः स्तुतिरूपा मन्त्रात्मिकाः वाचो येषां तथाविधा मदाः मदकरा रसाः स्वर्ण स्वर्गे यथा तथा अत्रापि त्वा त्वाम् उपागुः उपागच्छन्तु । एतेश्छान्दसे लुङि ‘इणो गा लुङि' (पा २,४,४५ ) इति गादेशः।


इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न ।

बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥

इन्द्रः । तुराषाट् । मित्रः । वृत्रम् । यः । जघान । यतीः । न ।

बिभेद । वलम् । भृगुः । न । ससहे । शत्रून् । मदे । सोमस्य ॥ ३ ॥

तुराषाट् । तुरं तूर्णं सहते अभिभवति शत्रून् इति तुराषाट् । 'छन्दसि सहः' (पा ३,२,६३) इति सहेर्ण्विप्रत्ययः । 'सहेः साडः सः' (पा ८,३,५६ ) इति षत्वम् । मित्रः सर्वप्राणिमित्रभूतः। यः इन्द्रः वृत्रम् एतन्नामानं त्वाष्ट्रम् असुरम् आवारकं मेघं वा जघान हतवान् । उक्तं हि यास्केन--'तत् को वृत्रः। मेघ इति नैरुक्ताः। त्वाष्ट्रोऽसुर इत्यैतिहासिकाः' (नि २, १६) इति । तत्र दृष्टान्तः -- यतीर्न यतयो नाम नियमनशीला आसुर्यः प्रजाः। ता इव । यद्वा अत्र यतिशब्देन वेदान्तार्थविचारशून्याः परिव्राजका विवक्षिताः । तानिव । तथा च कौषीतकोपनिषदि इन्द्रवाक्यम् -– 'त्रिशीर्षाणं त्वाष्ट्रम् अहनम् अवाङ्मुखान् यतीन् सालावृकेभ्यः' प्रायच्छम् ( कौउ ३,१) इति। स भृगुर्न भृगुरिव वलम् अङ्गिरसां सत्रमासीनानां यशसाधनभूता गा अपहृत्य स्थितं वलनामानम् असुरं बिभेद विदारितवान् । एतत् सर्वं सामर्थ्यं सोमपानप्रभावनिबन्धनम् इत्याह -- ससहे शत्रून् इति । सोमस्य पीतस्य मदे सति शत्रून् उदीरितान् ससहे अभिभूतवान् । एत्वाभ्यासलोपाभावश्छान्दसः।


आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः ।

श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥

आ । त्वा । विशन्तु । सुतासः । इन्द्र । पृणस्व । कुक्षी इति । विड्ढि । शक्र । धिया । आ । इहि । आ । नः ।

श्रुधि । हवम् । गिरः । मे । जुषस्व । आ । इन्द्र। स्वयुक्ऽभिः । मत्स्व । इह । महे । रणाय ॥ ४ ॥

हे इन्द्र सुतासः सुता अभिषुताः सोमाः । 'आज्जसेरसुक्' (पा ७,१,५० )। त्वा त्वाम् आ विशन्तु प्रविशन्तु । तैराविष्टैः सोमैः कुक्षी दक्षिणोत्तरकुक्षिद्वयं पृणस्व पूरय । वृड्ढि वर्धय च । वृहेर्वृद्ध्यर्थात् लोटि छान्दसः शपो लुक् । हेर्ध्यादेशे ढत्वष्टुत्वजश्त्वानि । हे शक्र नः अस्माकं धिया। धीरिति कर्मनाम । कर्मणा आवाहनस्तुत्यादिरूपेण एहि आगच्छ। यद्वा धिया अनुग्रहबुद्ध्या नः अस्मान् अभिलक्ष्य आगच्छ । हवम् अस्मदीयम् आह्वानं श्रुधि शृणु । ह्वेञो ‘भावेनुपसर्गस्य' ( पा ३,३,७५) इति अप् संप्रसारणं च । श्रुधीति । श्रु श्रवणे । विकरणप्रत्ययस्य लुक् । 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा ६,४,१०२ ) इति हेर्धिरादेशः। 'अन्येषामपि दृश्यते' (पा ६,३,१३७) इति सांहितिको दीर्घः । तथा मे मदीया गिरः स्तुतिरूपा वाचः जुषस्व सेवस्व । स्वीकुर्वित्यर्थः। यद्वा मम गिरः श्रुत्वा प्रीतो भव । ततः हे इन्द्र इह अस्मिन् यज्ञे स्वयुग्भिः स्वसखिभूतैर्मरुदादिभिर्देवैः सह मत्स्व सोमपानेन तृप्तो भव। मदी हर्षे । व्यत्ययेन आत्मनेपदम् । छान्दसो विकरणस्य लुक् । किमर्थम्। महे महते रणाय रमणीयाय कर्मणे । कर्मफलसिद्धय इत्यर्थः।


इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।

अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥

इन्द्रस्य । नु । प्र । वोचम् । वीर्याणि । यानि । चकार । प्रथमानि । वज्री ।

अहन् । अहिम्। अनु । अपः । ततर्द । प्र । वक्षणाः । अभिनत् । पर्वतानाम् ॥ ५ ॥

इन्द्रस्य वीर्याणि वीरकर्माणि नु क्षिप्रं प्रा वोचम् ब्रवीमि । छान्दसो लुङ् । 'अस्यतिवक्तिख्यातिभ्योऽङ्' (पा ३,१,५२) इति च्लेः अङादेशः । वज्री वज्रवान् प्रथमानि आदिभूतानि प्रथितानि वा । प्रथ प्रख्याने इत्यस्मात् 'प्रथेरमच्' ( पाउ ५,६८) इति अमच्प्रत्ययः। यानि वीर्याणि चकार कृतवान् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधे 'लिति' (पा ६,१,१९३) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् । कानि पुनस्तानीति तत्राह--अहिम् । आहननात् अहिः वृत्रोऽसुरो मेघो वा । 'आङि श्रिहनिभ्यां ह्रस्वश्च' (पाउ ४,१३८ ) इति डित् इण्प्रत्ययः । तम् अहन् हतवान् । हन्तेर्लङि शपो लुकि हल्ङ्यादिलोपे रूपम् । पादादित्वान्निघाताभावाद् अडागमस्य उदात्तत्वम् । अनु तदन्तरम् अपः तेन वृत्रेण निरुद्धानि उदकानि ततर्द जिहिंस विदारितवान् । मार्गप्रदानेन निःसारितवान् इत्यर्थः। उतृदिर हिंसानादरयोः इति धातुः। अप इति । 'ऊडिदम्' (पा ६,१,१७१ ) इत्यादिना शस उदात्तत्वम् । पर्वतानाम् शिलोच्चयानां संबन्धिनीः वक्षणाः । नदीनामैतत् । वहन्ति कूलानीति वक्षणा नद्यः । ताः प्राभिनत् विदारितवान् ।


अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।

वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥

अहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष।

वाश्राःऽइव । धेनवः । स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः ॥ ६॥

पर्वते शिलोच्चये पर्ववान् पर्वतो मेघस्तस्मिन् वा शिश्रियाणम् श्रितम् । श्रयतेः कानच् । चित्त्वाद् अन्तोदात्तत्वम् । अहिम् वृत्रं मेघम् असुरं वा अहन् जघान । त्वष्टा वृत्रस्य पिता अस्मै इन्द्राय स्वयम् सुष्ठु प्रेरणीयम् उपतापकरणं वा वज्रम् आयुधं ततक्ष तीक्ष्णं चकार । तक्षू त्वक्षू तनूकरणे । 'तस्मै त्वष्टा वज्रम् असिञ्चत् ' ( तै २,४,१२,२ ) इत्यादि तैत्तिरीयकम् । यद्वा अस्मै वृत्राय। 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (पा २,३,१४ ) इति कर्मणि चतुर्थी । वृत्रं हन्तुम् इत्यर्थः। स्वर्यम् इति। सुपूर्वाद् अर्तेः स, स्वृ शब्दोपतापयोः इत्यस्माद् वा 'ऋहलोर्ण्यत्' (पा ३,१,१२४)। 'संज्ञापूर्वको विधिरनित्यः' ( पाका ६,४,१४६ ) इति वृद्ध्यभावः । अत एव व्युत्पत्त्यनवधारणाद् अनवग्रहः। वाश्राः शब्दायमाना धेनव इव । वाशृ शब्दे इत्यस्मात् 'स्फायितञ्चि ( पाउ २,१३) इत्यादिना रक् । स्यन्दमानाः प्रवहन्त्यः। स्यन्दू प्रस्रवणे । अस्मात् लटः शानच् । 'अदुपदेशाल्लसार्वधातुक' (पा ६,१,१८६ ) इति अनुदात्तत्वे धातुस्वरः । तथाविधाः आपः अञ्जः अञ्जसा अन्यैरनिरुद्धाः समुद्रम् सरित्पतिम् अव जग्मुः अवाङ्मुखाः सत्यः प्रापुः।


वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य ।

आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥

वृषऽयमानः । अवृणीत ।सोमम् । त्रिऽकद्रुकेषु । अपिबत् । सुतस्य ।

आ। सायकम् । मघऽवा । अदत्त । वज्रम् । अहन् । एनम् । प्रथमऽजाम् । अहीनाम् ॥ ७ ॥

वृषायमाणः वृषेव आचरन्निन्द्रः सोमम् सोमात्मकं प्रशस्तम् अन्नम् अवृणीत । वृङ् संभक्तौ । प्रजापतेः स्रष्टुः सकाशाद् वृतवान् । वृषशब्दात् 'कर्तुः क्यङ् सलोपश्च' (पा ३,१,११) इति आचारार्थे क्यङ् । 'अकृत्सार्वधातुकयोः” (पा ७,४,२५) इति दीर्घः। अनन्तरं त्रिकद्रुकेषु पूर्वम् अभिप्लवत्र्यहं त्रिकद्रुकशब्देन उच्यते । तद् उक्तम् आपस्तम्बेन--'ज्योतिर्गौरायुरिति त्रिकद्रुकाः' इति । त्रयः सन्तः कद् द्रवन्ति कुटिलम् आवर्तन्ते संवत्सरसत्र इति त्रिकद्रुकाः । तेषु सोमयागेषु सुतस्य । कर्मणि षष्ठी । अभिषुतं सोमम् अपिबत् । पीत्वा लब्धबलः सन् मघवा इन्द्रः सायकम् । षो अन्तकर्मणि । अस्मात् ण्वुल् । शत्रूणां घातकं वज्रम् आदत्त अगृह्णात् । 'आङो दोऽनास्यविहरणे' (पा १,३,२०) इत्यात्मनेपदम् । ततः अहीनाम् आहन्तॄणाम् असुराणां प्रथमजाम् प्रथमजातम् एनम् वृत्रम् अहन् हतवान् । एनम् इति । अन्वादेशे एनादेशोनुदात्तः। प्रथमजाम् इति । प्रथमं जायत इति प्रथमजाः । 'जनसनखनक्रमगमो विट्' (पा ३,२,६७) इति विट् । 'विड्वनोरनुनासिकस्यात्' (पा ६,४,४१) इत्यात्त्वम् ।

इति प्रथमेऽनुवाके पञ्चमं सूक्तम् ।

प्रथमोऽनुवाकः समाप्तः।