सामग्री पर जाएँ

अथर्ववेदः/काण्डं २/सूक्तम् ०६

विकिस्रोतः तः
← सूक्तं २.०५ अथर्ववेदः - काण्डं २
सूक्तं २.६
शौनकः (सम्पत्कामः)
सूक्तं २.०७ →
दे. अग्निः। त्रिष्टुप्, ४ चतुष्पदार्षीपङ्क्तिः, ५ विराट् प्रस्तारपङ्क्तिः।

समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥१॥
सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय ।
मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥२॥
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुच्छन् ॥३॥
क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व ।
सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥४॥
अति निहो अति सृधोऽत्यचित्तीरति द्विषः ।
विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥


सायणभाष्यम्

द्वितीयेऽनुवाके पञ्च सूक्तानि । तत्र 'समास्त्वाग्ने' इति प्रथमं सूक्तम् । अनेन संपत्कामः अग्नेर्यागम् उपस्थानं वा कुर्यात् । “ 'समास्त्वाग्ने' [ अ २,६ ], 'अभ्यर्चत' [अ ७,८७ ] इत्यग्निं संपत्कामः" कौशिकसूत्रात् ( ५९,१५) इति ।

तथा भूतरोगचोरादिभयेन दारुणे संवत्सरे सति तच्छान्तये अनेन सूक्तेन आज्यं जुहुयात् । तथा च सूत्रम् -- 'अथ यत्रैतत् समा दारुणा भवति' इति प्रक्रम्य "समास्त्वाग्ने' इत्येतेन सूक्तेन जुहुयात् । सा तत्र प्रायश्चित्तिः” ( कौसू १०१,१-५) इति ।

तथा अग्निचयने प्राजापत्ये पशौ सामिधेनीकाले ब्रह्मा एतत् सूक्तं जपेत् । “ 'समास्त्वाग्ने' इति जपति" इति वैतानसूत्रात् (वैताश्रौ २८,४)।

तथा 'आग्नेयीम् अग्निभये सर्वकामस्य च' (शाक १७,१) इति विहितायाम् आग्नेय्यां महाशान्तौ एतत् सूक्तं योजयेत् । तद् उक्तं शान्तिकल्पे-- 'समास्त्वाग्ने' 'अभ्यर्चत' इत्याग्नेय्याम्” (शाक १८,१) इति ।

राज्ञो रात्रौ आरात्रिकविधाने 'अति निहः' (अ २,६,५) इत्यनया दीपं प्रज्वालयेत् । उक्तं परिशिष्टे (अप ७,१,४,५)

"कृत्वा पिष्टमयं दीपं सुवर्तिस्नेहसंप्लवम् ।

'अति निहः', 'प्रान्यान्' [अ ६,३५,१] इति द्वाभ्यामेनं प्रदीपयेत् ॥” इति ।


समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।

सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥१॥

समाः । त्वा । अग्ने । ऋतवः । वर्धयन्तु । सम्ऽवत्सराः । ऋषयः। यानि । सत्या।

सम् । दिव्येन । दीदिहि । रोचनेन । विश्वाः । आ। भाहि । प्रदिशः । चतस्रः ॥ १॥

हे अग्ने समाः संवत्सराः त्वां वर्धयन्तु । ऋतवश्च त्वां वर्धयन्तु। पुनः संवत्सरशब्देन मासार्धमासदिवसरूपाः तदवयवाश्च त्वां वर्धयन्तु । ऋषयः प्रसिद्धा वसिष्ठप्रभृतयः । यानि अन्यानि च सत्या सत्यानि पृथिव्यादीनि तानि च त्वां वर्धयन्तु । 'शेश्छन्दसि बहुलम्' ( पा ६,१,७० ) इति शेर्लोपः । स त्वं तैर्वर्धितो दिव्येन द्युलोकार्हेण आत्मीयेन । 'छन्दसि च' (पा ५,१,६७ ) इति यः । रोचनेन रोचमानेन वपुषा । रुच दीप्तौ इत्यस्माद् ‘अनुदात्तेतश्च हलादेः' (पा ३,२,१४९ ) इति युच् । सं दीदिहि सम्यग् दीव्य दीप्यस्व वा । दीव्यतेः 'बहुलं छन्दसि' (पा २,४,७६ ) इति शपः श्लुः । 'तुजादीनाम्" (पा ६,१,७) इत्यभ्यासस्य दीर्घत्वम् । 'लोपो व्योर्वलि (पा ६,१,६६ ) इति वलोपः। धात्वन्तरं वा दीदेतिश्छान्दसो दीप्तिकर्मा । तथा दीप्तश्च त्वं विश्वाः सर्वाश्चतस्रः प्रदिशः प्रकृष्टाः प्राच्याद्या महादिशः आ भाहि प्रकाशय । प्रदिशां प्रकाशने किं पुनर्विदिशाम् इत्यष्टानामपि दिशां प्रकाशलाभः ।


सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय ।

मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥२॥

सम्। च। इध्यस्व । अग्ने । प्र । च । वर्धय । इमम् । उत्। च। ति॒ष्ठ । महते । सौभगाय ।

मा । ते । रिषन् । उपऽसत्तारः । अग्ने । ब्रह्माणः । ते । यशसः । सन्तु । मा। अन्ये ॥२॥

हे अग्ने समिध्यस्व च स्वयमेव समिद्धो भव । इन्धी दीप्तौ कर्मकर्तरि यकि 'अनिदिताम्” (पा ६,४,२४ ) इति नलोपः । इमम् यजमानं प्र वर्धय च समृद्धकामं कुरु । 'चवायोगे प्रथमा' (पा ८,१,५९) इति इध्यस्वेति प्रथमा तिङ्विभक्तिर्न निहन्यते । उत्तिष्ठ च उत्साहवान् भव । 'उदोऽनूर्ध्वकर्मणि' (पा १,३,२४ ) इत्यात्मनेपदं व्यत्ययेन न प्रवर्तते । 'उद ईहायाम्' (पावा १,३,२४) इति वचनाद् अनीहाविषयो वा द्रष्टव्यः । यद्वा ऊर्ध्व उच्छ्रितो भव । ततश्च ऊर्ध्वकर्मत्वाद् आत्मनेपदाभावः । किमर्थम् । महते सौभगाय सुश्रीकत्वाय । यजमानस्येति शेषः । 'बृहन्महतोरुपसंख्यानम्' (पावा ६,१,१७० ) इति महतो विभक्तेरुदात्तत्वम् । उद्गात्रादिषु 'सुभग मन्त्रे' (पाग ५,१,१२९) इति पाठाद् अञ् । 'सुभगस्य मन्त्र उत्तरपदवृद्धिर्नेष्यते' (तु. पाका ७,३,१९) इति भगान्तलक्षणवृद्ध्यभावः । हे अग्ने इदं चाप्यस्तु । ते तव उपसत्तारः उपसदनकर्तारः परिचारका ऋत्विग्यजमाना मा रिषन् मा विनश्यन्तु सम्यक् कर्मणि वर्तन्ताम् । रिष हिंसायाम् । अस्माद् व्यत्ययेन च्लेः अङादेशः । सदेस्तृचि कृदुत्तरपदप्रकृतिस्वरत्वम् । अपिच ब्रह्माणः ब्राह्मणाः ते त्वदीया ऋत्विग्यजमानाः त्वत्परिचरणे वर्तमाना यशसः सन्तु यशस्विनो भवन्तु अन्ये ये त्वत्परिचरणपराङ्मुखास्त्वदीया न भवन्ति ते मा भूवन् । यशस्विन इत्यनुषङ्गः। यशःशब्दात् 'तत्करोति' (पावा ३,१,३६ ) इति णिच् । तदन्ताद् असुनि णिलोपे उदात्तनिवृत्तिस्वरेण असुन उदात्तत्वम् ।


त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।

सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुच्छन् ॥३॥

त्वाम् । अग्ने । वृणते । ब्राह्मणाः । इमे । शिवः । अग्ने । सम्ऽवरणे । भव । नः ।

सपत्नऽहा । अग्ने । अभिमातिऽजित् । भव । स्वे । गये । जागृहि । अप्रऽयुच्छन् ॥३॥

हे अग्ने इमे ब्राह्मणाः ऋत्विग्यजमानास्त्वां वृणते संभजन्ते आराधयन्ति । तस्मात् नः अस्माकं संभाव्यमानप्रमादानां शिवः शान्तो भूत्वा संवरणे भव विद्यमानस्यापि प्रमादस्य संछादने वर्तस्व । मा तत्प्रकाशनेन क्रोधं कार्षीरित्यर्थः। 'द्व्यचोऽतस्तिङः' (पा ६,३,१३५) इति भवशब्दस्य सांहितिको दीर्घः। किञ्च हे अग्ने सपत्नहा अस्मदीयानां शत्रूणां हन्ता अभिमातिजित् । अभिमातिः पाप्मा । श्रूयते हि-- 'पाप्मा वा अभिमातिः' (तै २,१,३,५) इति । तस्य जेता भव । स्वे आत्मीये गये । गृहनामैतत् । गृहे अप्रयुच्छन् अप्रमाद्यन् । युछ प्रमादे । जागृहि प्रबुध्यस्व । आदरवान् वर्तस्व ।


क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व ।

सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥४॥

क्षत्रेण । अग्ने । स्वेन । सम् । रभस्व । मित्रेण । अग्ने । मित्रऽधा । यतस्व ।

सऽजातानाम् । मध्यमेऽस्थाः । राज्ञाम् । अग्ने । विऽहव्यः । दीदिहि । इह ॥ ४ ॥

हे अग्ने स्वेन आत्मीयेन क्षत्रेण । बलनामैतत् । बलेन सं रभस्व संरब्धो भव । संगतो भवेत्यर्थः । रभ राभस्ये। किञ्च हे अग्ने मित्रधाः मित्राणां पोषकः। मित्रशब्दोपपदाद् धाञो विचि रूपम् । मित्रेण मित्रभावन यतस्व उपकरोमीत्येव वर्तस्व मा उदासिष्ठाः । यती प्रयत्ने । अपिच सजातानाम् समानं जातानां ब्राह्मणानाम् । प्रजापतिमुखाद् उत्पन्नत्वाद् अग्नेर्ब्राह्मणानां च सजातत्वम् । मध्यमेष्ठाः । मध्यमेव मध्यमम् । स्वार्थे 'मध्यान्मः' ( पा ४,३,८ )। तत्र स्थाता । यद्वा सजातानां मध्ये भवो मध्यमः यजमानः । तेषाम् उपजीव्यः। तत्र सदा स्थाता । तिष्ठतेर्विच् । 'तत्पुरुषे कृति बहुलम्' (पा ६,३,१४ ) इत्यलुक् । सुषामादित्वात् षत्वम् । राज्ञाम् क्षत्रियाणामपि विहव्यः विहवेषु भवः। विविधं हूयन्ते आहूयन्ते देवा एष्विति विहवा यज्ञाः । 'ह्वः संप्रसारणं च न्यभ्युपविषु' (पा ३,३,७२ ) इति अप् संप्रसारणं च । ततो 'भवे छन्दसि' (पा ४,४,११०) इति यत् । यद्वा विविधानि हव्यानि चरुपुरोडाशादीनि हवींषि यस्य स तथोक्तः। अस्मिन् पक्षे छान्दसम् अन्तस्वरितत्वम् । हे अग्ने एवंभूतस्त्वम् इह अस्मिन् कर्मणि दीदिहि दीप्यस्व । दीदेतिर्व्याख्यातः।


अति निहो अति सृधोऽत्यचित्तीरति द्विषः ।

विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥

अति । निहः । अति । सृधः । अति । अचित्तीः । अति । द्विषः ।

विश्वा । हि । अग्ने । दुःऽइता। तर । त्वम् । अथ । अस्मभ्यम् । सहऽवीरम् । रयिम् । दाः ॥ ५ ॥

निहः निहन्तॄन विषयजान् दोषान् । हन्तेः क्विपि टिलोपश्छान्दसः। यद्वा निकृष्टा गतीः श्वशूकरादियोनिप्राप्तिरूपाः । ओहाङ् गतौ । क्विबन्तात् शसि 'आतो धातोः' (पा ६,४,१४० ) इत्याकारलोपः। उदात्तनिवृत्तिस्वरो व्यत्ययेन न प्रवर्तते । तान् अति । तरेति संवन्धः । स चान्तर्णीतण्यर्थः । अतितारय । तद्धेतुभूतपापजालविनाशनेन तदपि विनाशयेत्यर्थः । [स्रिधः । स्रेधतिः शोषणकर्मा छान्दसः। ततः क्विप् । देहशोषकान् रोगान् अतितारय । अचित्तीः अशोभनबुद्धीः पापप्रवणा अतितारय। द्विषः द्वेष्टॄन् शत्रूंश्च अतितारय । हिशब्दः समुच्चयार्थः। किंबहुना। हे अग्ने त्वं विश्वा विश्वान्यपि [दुरिता] दुरितानि दुर्गतानि अति तर अतितारय । अथ अनन्तरम् अस्मभ्यं सहवीरम् पुत्रपौत्रादिसहितं रयिम् धनं दाः देहि । छान्दसे लुङि 'गातिस्थाघुपा” (पा २,४,७७ ) इति सिचो लुक् । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा ६,४,७५) इति अडभावः । तेन सहेति तुल्ययोगे' (पा २,२,२८ ) इति तुल्यक्रियायोगे बहुव्रीहौ 'वोपसर्जनस्य' (पा ६,३,८२ ) इति सहस्य सभावो विकल्पितत्वात् न प्रवर्तते । ‘एवादीनामन्तः' (फि ४,१४ ) इति सहशब्दः अन्तोदात्तः।

इति द्वितीयेऽनुवाके प्रथमं सूक्तम् ।