केचिदनिबद्ध एव पर्यवसिताः, तद्दूषर्णाथमाह--
नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ॥ २९ ॥
न खल्वनिबद्धं काव्यं चकास्ति दीप्यते। यथैकतेजःपरमाणुरिति ।
अत्र श्लोक:---
'असंकलितरूपाणां काव्यानां नास्ति चारुता ।
न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः ॥' इति ।
संदर्भेषु दशरूपकं श्रेयः ॥ ३० ॥
संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः ॥
कस्मात् ? तदाह-
तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात् ॥ ३१ ॥
तत् दशरूपकं हि यस्मात् चित्रं चित्रपटवत् । विशेषाणां साकल्यात् ।
अनिबद्धसिद्धिमात्रेण कविंमन्यानन्यानपवदितुमाह-- केचिदिति । प्रावादुकसंमतिं दर्शयति- अत्र श्लोक इति । असंकलितरूपाणाम् अनिबद्धरूपाणामित्यर्थः ।
निबद्धेषु तरतमभावं निरूपयति--- संदर्भेष्विति । रूपकस्वरूपं निरूपितं दशरूपके, “अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते । रूपकं तत्समारोपाद्दशधैव रसाश्रयम् ॥' इति । भावप्रकाशेऽपि, 'रूपकं तद्भवेद्रूपं दृश्यत्वात्प्रेक्षकैरिदम् । रूपकत्वं तदारोपात्कमलारोपवन्मुखे ॥' इति । दश रूपकाणि तु, ' नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश ॥' इति । दशानां रूपकाणां समाहारो दशरूपकम् । समाहारस्यैकत्वादेकवचनम् । पात्रादित्वात् स्त्रीत्वप्रतिषेधे नपुंसकत्वम् । श्रेयः अतिशयेन प्रशस्यमित्यर्थः ॥ ३० ॥
श्रेयस्त्वे हेतुं पृच्छति--- कस्मादिति । हेतुमुपन्यस्यति---- तदिति ।