पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अ. ३.
३७
कामधेनुसहिता।

 केचिदनिबद्ध एव पर्यवसिताः, तद्दूषर्णाथमाह--

 नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ॥ २९ ॥

 न खल्वनिबद्धं काव्यं चकास्ति दीप्यते। यथैकतेजःपरमाणुरिति ।

अत्र श्लोक:---

  'असंकलितरूपाणां काव्यानां नास्ति चारुता ।
  न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः ॥' इति ।

संदर्भेषु दशरूपकं श्रेयः ॥ ३० ॥

 संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः ॥

 कस्मात् ? तदाह-

तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात् ॥ ३१ ॥

 तत् दशरूपकं हि यस्मात् चित्रं चित्रपटवत् । विशेषाणां साकल्यात् ।

 अनिबद्धसिद्धिमात्रेण कविंमन्यानन्यानपवदितुमाह-- केचिदिति । प्रावादुकसंमतिं दर्शयति- अत्र श्लोक इति । असंकलितरूपाणाम् अनिबद्धरूपाणामित्यर्थः ।

 निबद्धेषु तरतमभावं निरूपयति--- संदर्भेष्विति । रूपकस्वरूपं निरूपितं दशरूपके, “अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते । रूपकं तत्समारोपाद्दशधैव रसाश्रयम् ॥' इति । भावप्रकाशेऽपि, 'रूपकं तद्भवेद्रूपं दृश्यत्वात्प्रेक्षकैरिदम् । रूपकत्वं तदारोपात्कमलारोपवन्मुखे ॥' इति । दश रूपकाणि तु, ' नाटकं सप्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश ॥' इति । दशानां रूपकाणां समाहारो दशरूपकम् । समाहारस्यैकत्वादेकवचनम् । पात्रादित्वात् स्त्रीत्वप्रतिषेधे नपुंसकत्वम् । श्रेयः अतिशयेन प्रशस्यमित्यर्थः ॥ ३० ॥

 श्रेयस्त्वे हेतुं पृच्छति--- कस्मादिति । हेतुमुपन्यस्यति---- तदिति