ततोऽन्यभेदक्लृप्तिः ॥ ३२ ॥
ततो दशरूपकादन्येषां भेदानां क्लृप्तिः कल्पनमिति, । दशरूपकस्यैव हीदं सर्वं विलसितम्, यदुत कथाख्यायिके महाकाव्यमिति । तल्लक्षणं च नातीव हृदयंगममित्युपेक्षितमस्माभिः। तदन्यतो ग्राह्यम् ॥
इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे
तृतीयोऽध्यायः ॥
समाप्तं चेदं शारीरं प्रथममधिकरणम् ॥
विशेषाणां भाषाभेदादिरूपाणाम् ।
कथाख्यायिकादीनां महाकाव्यभेदानामस्मादेव वस्तुविन्यासकल्पनमिति प्रकारान्तरेणापि श्रेयस्त्वमस्य प्रतिपादयितुमाह- तत इति । इदं सर्वमिति । कथाख्यायिकादिमहाकाव्यस्वरूपम् । विलसितमित्यस्य व्याख्यानं खण्डशः कृतमिति, यत् कथा चाख्यायिका च महाकाव्यमिति व्यपदिश्यते, तदिदं सर्वमिति व्याकुट्य योजनीयम् । यदि कथाख्यायिके महाकाव्ये तर्हि तल्लक्षणं किमिति न प्रदर्शितमिति तत्राह- तल्लक्षणमिति । यदि केनचित्तल्लक्षणमपेक्षितम् , तद्भामहालंकारादौ द्रष्टव्यमित्याह -- तदन्यत इति । नाटकादिलक्षणं तु ग्रन्थविस्तरभयादस्माभिर्न लिखितम् ॥
इति कृतरचनायामिन्दुवंशोद्वहेन
त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
ललितवचसि काव्यालंक्रियाकामधेना-
वधिकरणमयासीदादिमं पूर्तिमेतत् ॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-
व्याख्याया काव्यालंकारकामधेनौ शारीर नाम
प्रथममधिकरणम् ॥