पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
गोपालसहस्रनामस्तोत्रम्



 मन्दस्मिताननो गोपो गोपिकापरिवेष्टितः ।
 फुल्लारविन्दनयनः चाणूरान्ध्रनिषूदनः ॥ १०२ ॥

 मन्दस्मिताननः -- मन्दं मनाक् स्मितं हासः आनने यस्य सः ।

 'ईपद्विकसितैर्दन्तैः कटाक्षैः सौष्ठवान्वितैः ।
 अलक्षितद्विजद्वारमुतमानां स्मितं भवेत् ॥'

इति वचनं अमरसुधायामुदाहृतम् (पृ. ८५)। गोप:- गोपालजातीयः गोपिकापरिवेष्टित:---गोपस्रीभिः परिवृतः । फुल्लारविन्दनयनः- विकसिते पद्मसदृशे नेत्रे यस्य सः। चाणूरान्धनिषूदन:-चाणूरनामकमसुरमल्लं आन्ध्रदेशीयं मुष्टिकं च निषूदितवानिति तादृशः । भागवते दशमस्कन्धे चतुचत्वारिंशत्तमेऽध्यायेऽयं वृत्तान्तः द्रष्टव्यः ॥ १०२ ।।


 इन्दीवरदलश्यामो बर्हिबहार्वतंसकः ।
 मुरलीनिनदाह्लादः दिव्यमाल्याम्बरावृतः ॥ १०३ ॥

 इन्दीवरदलश्यामः - नीलोत्पलवत् श्यामवर्णः। बर्हिबर्हावतंसकः - मयूरपिच्छशिरोऽलङ्कारः । मुरलीनिनदाह्वादः - वेणुगानेन सर्वानाह्वादयतीति तादृशः। दिव्यमाल्याम्बरावृत:-- अप्राकृतमालावस्त्राभ्यां वेष्टितः ॥ १०३ ॥


 सुकपोलयुगः सुभ्रूयुगलः सुललाटकः ।  कम्बुग्रीवो विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥१०४॥

 सुकपोलयुगः- शोभनकपोलयुगलवान् । सुभ्रूयुगल:- शोभनभ्रूयुग्भः | सुललाटक:- शोभनललाटवान् । कम्बुग्रीव:-- कम्बुःशङ्खः


  102 a ख घ.. मन्दस्मिततमो गोपो
   ab.ङ गोपगोपिका
  103 . a क xxxxxxxxxx