स्मृत्यन्तरे--
"न विवादे न कलहे न सेनायां न सङ्गरे । |
अधीयीतेति शेषः ।
हेमाद्रौ स्मृतिः--
"यज्ञे चानूबन्ध्यान्तं दीक्षितस्यर्त्विजां च" इति । |
मनुः--
"त्र्यहं न कीर्तयेद्ब्रह्म सपिण्डीकरणे तथा" इति । |
सपिण्डीकरणे कृते सत्यनन्तरं त्र्यहमनध्याय इत्यर्थः ।
स्मृतिसंग्रहे--
"उदके मध्यरात्रे च विण्मूत्रे च विसर्जिते । |
स्मृतिसारे--
"सर्वकुत्सितगन्धेषु परिवेषे सभासु च । |
सर्वश्राद्धेष्वित्यनेन श्राद्धकर्तुरध्ययननिषेधः । श्राद्धपङ्क्तिष्वित्यनेन श्राद्धभोक्तुरध्ययननिषेधः । सप्तमीनिर्देशात्तत्तत्काले ।
धर्मोद्योते--
"फलान्या(न्य)पस्तिलान्भक्ष्यान्यच्चान्यच्छ्राद्धिकं भवेत् । |
यमः--
"आगतं चातिथिं दृष्ट्वा नाधीयीतैव बुद्धिमान् । |
तस्मिन्नतिथ्यागमनसमयेऽभ्यनुज्ञापितोऽतिथिना ।
आरण्यमार्जाराद्यन्तरागमने विशेषः स्मृत्यर्थसारे--
"आरण्यमार्जारसर्पनकुलपञ्चनखादेरन्तरागमने त्रिरात्रम् । आरण्यश्वशृगालवानरादेर्द्वादशरात्रं, खरवराहोष्ट्रचण्डालसूतिकोदक्यादेर्मासम् । शशमेषश्वपाकादेः षण्मासं, गजसारससिंहव्याघ्रमहापातकिकृतघ्नादेरब्दम्" इति ।