पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अनध्यायाः]
३३७
संस्काररत्नमाला ।
( अनध्यायाध्ययने दोषः )
 

 अन्यच्च--

"शोभनदिने चानध्यायो विवाहप्रतिष्ठोत्थापनादिष्वा समाप्तेः
सगोत्राणाम्" इति ।

 विवाह इत्युपनयनोपलक्षणम्--

 तथा--

"श्रवणद्वादशीमहाभरण्योः प्रेतद्वितीयायां रथसप्तम्यामाकाशे
शवदर्शने चाहोरात्रम्" इति ।

 महाभरणी महालयान्तर्गता । प्रेतद्वितीया यमद्वितीया ।

 कौर्मे--

"श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च ।
कदाचिदपि नाध्येयं कोविदारकपित्थयोः" इति ॥

 श्लेष्मातकं भाषया "भोंकरी" इति प्रसिद्धम् । शाल्मलिः "सावरी" इति भाषया प्रसिद्धः । मधुको भाषया "मोहा" इति प्रसिद्धः । कोविदारः कञ्चनारः ।

 आश्विने शुक्लपक्षे मूलनक्षत्रे पुस्तकस्थापने कृते तदारभ्य पुस्तकविसर्जनपर्यन्तमनध्यायः ।

 तदुक्तं देवीपुराणे--

"नाध्यापयेन्न च लिखेन्नाधीयात कदाचन ।
पुस्तके स्थापिते दे[१]वि विद्याकामो द्विजोत्तमः" इति ॥

 एवमन्येऽप्यनध्याया धर्मसूत्रादौ द्रष्टव्याः ।

 अनध्यायाध्ययने दोष उक्तो बृहन्नारदीये--

"अनध्यायेष्वधीतानां प्रजां प्रज्ञां यशः श्रियम् ।
आयुष्यं बलमारोग्यं निकृन्तति यमः स्वयम् ॥
अनध्याये तु योऽधीते तं विद्याद्ब्रह्मघातकम् ।
न तेन सह भाषेत न तेन सह संविशेत्" इति ॥

"चतुर्दश्यष्टमीपर्वप्रतिपत्स्वेव सर्वदा ।
दुर्मेधसामनध्यायस्त्वन्तरागमनेषु च ॥
तत्र विस्मृतिशीलानां बहुवेदप्रपाठिनाम् ।
चतुर्दश्यष्टमीपर्वप्रतिपद्वर्जितेषु च ॥
वेदाङ्गन्यायमीमांसाधर्मशास्त्राणि चाभ्यसेत्" ॥


  1. ङ. देवी ।