अन्यच्च--
"शोभनदिने चानध्यायो विवाहप्रतिष्ठोत्थापनादिष्वा समाप्तेः |
विवाह इत्युपनयनोपलक्षणम्--
तथा--
"श्रवणद्वादशीमहाभरण्योः प्रेतद्वितीयायां रथसप्तम्यामाकाशे |
महाभरणी महालयान्तर्गता । प्रेतद्वितीया यमद्वितीया ।
कौर्मे--
"श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च । |
श्लेष्मातकं भाषया "भोंकरी" इति प्रसिद्धम् । शाल्मलिः "सावरी" इति भाषया प्रसिद्धः । मधुको भाषया "मोहा" इति प्रसिद्धः । कोविदारः कञ्चनारः ।
आश्विने शुक्लपक्षे मूलनक्षत्रे पुस्तकस्थापने कृते तदारभ्य पुस्तकविसर्जनपर्यन्तमनध्यायः ।
तदुक्तं देवीपुराणे--
"नाध्यापयेन्न च लिखेन्नाधीयात कदाचन । |
एवमन्येऽप्यनध्याया धर्मसूत्रादौ द्रष्टव्याः ।
अनध्यायाध्ययने दोष उक्तो बृहन्नारदीये--
"अनध्यायेष्वधीतानां प्रजां प्रज्ञां यशः श्रियम् । |
- ↑ ङ. देवी ।